SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ टली ॥ तदा गौतमस्तानशिक्षयत । भो महाशयाः । तत्र गत्वा यथाऽहं गुरुं वन्देयं तथा भवद्भिरपि वन्दनीयस्तैरपि तदुक्तमङ्गीकृतम् । से मिजोत्पलं केवलं तस्य नाऽऽचचक्षिरे । अथ प्रभोः समवसरणमागत्य गौतमः प्रभुं यथाविधि ववन्दे पृष्ठे च तानपश्यन् केरलपक्क्त्युपविष्टानशेषानद्राक्षीत् । तदानीं तानवोचत गौतमः । भो महाशयाः ! पूर्वं शिक्षिता अपि भवन्तः प्रमुवन्दनामकृत्वा तत्र कथमुपाविशन् ? अत्राsसरे भगवतोक्तम्- हे गौतम! केवलिनाले वामाचानां मा याचदा गौतमपृच्छत । हे प्रभो ! मम केवलमुवेष्यति न वा ? प्रचणोक्तम् । तवाऽपि चरमे वयसि तदुत्पत्स्यते । तच्छ्रुत्वा गौतमो जहर्ष । एतस्याः कथायाः सारत्वेनैतद् ग्राह्यमस्ति । यथा - गौतमस्तपोभिर्महत लब्धिमाप, तलेन दुष्करामपि तीर्थयात्रामकरोत् यु सरसार्धसहस्रतापसानभोजयत्, तथाऽन्यैरपि तपः कृत्वा लब्धि प्राप्य कर्मोन्मूलनं कार्यम् । पुनस्तप:प्रभावविषये नन्दिषेणमुनेः ३४-प्रबन्धः -- यथा- राजगृहनगरे श्रेणिकराजस्य नन्दिषेणनामा तनयोऽभूत् । स यौवने पित्रा पञ्चशतकन्याभिः पर्यणायि । तत्राऽन्यदा महोधाने वीररागत्य समबसरत । तं चंदितुं सपरिवारः श्रेणिकराजस्तत्राऽगात् भगवन्तं वन्दित्वा देशनां सर्वेऽन् तदा श्रुत्वा प्रतिबुद्धो नन्दिषेणः स्त्रालयमेत्य मातापितरौ संगमामुज्ञामयाचत । तदा ताभ्यां गृहवासाय बहुभिर्दृष्टान्तैः प्रतिबोधितोऽपि स तत्क्षणमञ्जसा वीरप्रभोरन्तिकमागत्य चारित्रप्रदानार्थमभ्यर्थयत । तत्राऽवसरे चाकाशवाण्यप्यभूत-अस्येदान भोग्यकर्मोदयोsवशिष्यत इति । भगववाऽपि तथैव भणितम् । सर्वमगणयन् मनसि च योऽधुना मया त्यज्यते सोडग्रे मां कथं ————
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy