SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ कि भोक्ष्यध्ये १ तैरुक्तम् — स्वामिन् ! पश्चामृतमशितुमय नो वाञ्छा जागर्ति । तद्वचः श्रुत्वा स्वयमेव गोचर्यै पुरं प्राविशत् । कश्चि सवगृही भक्त्या तस्य पायसं प्रत्यलामयत् । तल्लात्वा समागते गौतमे ते दध्युः । अहो ! इयता पायसेनाऽस्माकं तिलकमपि न सम्पत्स्यते, तर्हि तृप्तिः कथं भविष्यति १ । यावदेवं विचिन्तयन्ति तावङ्गौतमेनोक्तम्- भो महानुभावा 1 युष्माभिः समागम्यतां तदनु भोजनार्थमेकस्यां पङ्क्तौ सैकपञ्चशततापसानुपावेशयत् तावतस्तानपरपङ्क्तौ तृतीयस्यामपि तावतस्तांस्तापसानुपावेशयत् । इति परिपाट्या समुपविष्टस्तापसानशेषान् तत्र पायसे 'अक्षीणमानसी' लब्धिरिति मन्त्रमुद्दा निजाङ्गुष्ठमारोपयन् परिवेष्य यथेच्छ्मभोजयत् । तदा स तानपृच्छत् – कि मोः ! कस्यचित् किञ्चिदपेक्षते १ तैरुक्तम् वर्यं सर्वे तृप्ता अभूम । ततस्तत्पात्रादङ्गुष्ठे समुद्धृते पुरानीतप्रमाणं पायसं तत्पात्रेष्वशिशेष तावता पायसेन स निजतृप्तिमकरोत् । J तत्राऽवसरे तेषामश्नतां सद्भावनां भावयतामेकपङ्क्त्युपविष्टानामेकाधिक पश्चचततापसानां तत्कालमुज्ज्वलं केवलज्ञानमुत्पेवे । ततोऽग्रे चलन् स तैः पृष्टः - हे स्वामिन्! कुत्र गच्छसि १ सेनोक्तम्- निजगुरुसमीपम् । पुनस्तैरुक्तम् भवतो गुरवः कीशाः सन्ति तदा गौतम गुरून् वर्णयन् जगाद - भोः तपस्विनः । मम गुरोः स्वरूपमाकर्णयत । नूनमिह काले साक्षात्कल्पद्रुमोऽस्ति । स खलु - अष्टविधमहाप्रातिहार्यरूपया बालक्ष्म्या शोशुभ्यमानोऽस्ति । सदा त्रिदशगणैः सेव्यमानो वर्तते । त्रिभुवननायक छत्रचामरसिहासनादिभिर्विराजते । इत्थं गुरुतरगुरुवर्णनमाकर्णयतां तेषामेकोत्तर पञ्चशततापसानां केवलज्ञानमुदपद्यत । ततोsप्रे गत्वा समवसरणमालोक्य ते पत्रच्छुः - हे स्वामिन् ! किमेतद्विलोक्यते ? गौतमोऽवदत् । एतन्मम गुरोः समवसरणं विद्यते, तच्छ्रुत्वाऽवशिष्ठैको चरपश्चशततापसानामपि केवलज्ञानमुत्पन्नमभूत् । इर्त्य ते त्र्युत्तरपश्चदशशततापसाः सर्वे केवलिनो बभूवुः ।
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy