SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ धोक्तं सत्याफ्यन्तीव चपला स्थापितयक्षशिरसि पयात । तेनेत्यं तद्भवाद्राजा मोचितः। सर्वे लोका मुमुदिरे । जयजयारावं च वितेनुः। तदनु राडा प्रचुरधनदानेन स नैमित्तिकः सत्कृत्य विसृष्टः । एनां कयां निशम्य भवन्त उद्यमवलं पश्यन्तु । यदुधमेन भविष्यदपि मरणभयं राज्ञोऽनश्यत । इति प्रत्यक्षं तत्फलं पश्यन्तो भवन्तोऽप्युधमं कुर्वताम् । _ पुनस्तत्रैव ज्ञानगर्भाभिधप्रधानस्य २९-अपरः प्रवन्धःएकदा सदसि समागतं निमित्झं नृपोऽपृच्छत् । भो विद्वन् ! काश्चिद्भविष्यन्तीमपूर्वा वातों कथय । सोऽपि ज्ञानतो विचार्य का नृपमवदत्-ई राजन् ! अद्यतः पश्चदशदिनाभ्यन्तरे प्रधानस्य प्रामान्तिक: क्लेश आगमिष्यति । इत्याप्प समातः स्वगृह तमानीय प्रधानोऽपृच्छत् । हे निमित्वज्ञ ! मम कस्मादुत्पत्स्यते क्लेश इति बद । तेनोक्तम्-यस्ते ज्येष्ठः सुतस्तस्मात् । अथ मन्त्रिणा सत्कृते तस्मिन् गते, मन्त्रिणा पुरुषप्रमाणका काष्ठपेटिका कारिता । तत्र खाद्य पेयं निक्षिप्य ज्येष्ठ पुत्रमाहूय सर्वमेतज्जगो । सोऽपि विनीतः पितुराज्ञया तस्यानविशत् । ततस्तां सार्गलां विधाय सेवकेन नृपान्तिकमनीनयत् । उक्तश्न हे महाराज ! मम विपदागामिन्यस्ति । इति सम्पच्या किम् ? अत एनां सम्पदं भवत्पार्श्वे स्थापयितुमनयम् । इत्युदीर्य तत्कुनिका तस्मै दवा जगाद । ई स्वामिन् ! एषा पञ्चदशदिनानन्तरमुद्घाटनीया । तदनु स मन्त्री राजानं नमस्कृत्य चैत्यमेत्य जिनेन्द्रं स्तोतुमलगन् । एक्माचस्तस्तस्य तानि दिनानि व्यसीयुः । राजाऽपि सा मञ्जूपाऽन्तःपुरे न्यासिता । अथैकदाऽन्तःपुरस्थिततत्पेटिकामध्यादेव शब्दः प्रादुरासीत् । यधा-राज्या वणी प्रधानपुत्रकरगता जाता तदाकर्ण्य कोपाद्रक्ताक्षो नृपो दूतेन प्रधानमजूहवत् । तदादेशात्तदानीमेन स दूतस्तद्गृहमागत्य मन्दिरस्थं तं ज्ञात्वा तत्रागत्य सं नृपान्तिकमनयत । तमापतं वीक्ष्य नृपो विमुखीभूय तस्थौ ।
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy