SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ इह तबास्ति यगुम्नेगल सागरी--याः नामदन राज्ञः शिरति पतिष्यन्तीमतिदीप्तां सौदामिनीमपि निजोद्यमयोगेन सुबुद्धिहै नामा प्रधानो न्यवारयत । तथा मतिमान मन्त्री निजपुत्रादेष्यन्ती निजामपि दुर्दशामुद्यमेन निराकरोत् ॥ ३८ ।। अथोद्यमोपरि सुबुद्धिनाम्नः प्रधानस्य २८-प्रवन्धः___ अथैकदा विजयराजसदसि कश्चिनैमित्तिक आगात । राजा तमेवमपृच्छद् भो नैमित्तिक ! यदि भविष्यजानासि तर्हि साम्प्रतं कस्य किं भवितेति बद । सोऽप्यूचे हे राजन् ! मया सर्व ज्ञायते, शक्यते च गदितुम् । यत्पृष्टं तदाकर्यताम्, अग्रतः सप्तमे दिवसे पोतनपुराधीशस्य शिरसि विद्युत्पतिष्यति, इति निशम्य सर्वे राजादयः सम्या भृशमखियन्त । राज्ञाऽचिन्ति-भवितव्यं केन वार्यते । यदाह-" अवश्य भाविनो भाषा, भवन्ति महतामपि " इति तत्रावसरे सर्वे मतिशालिनो मन्त्रिगणा एतन्निराकर रोपायमचिन्तयन् । तन्मध्यादेकोऽवादीत् यद्येवं-तर्हि कमप्यन्यं नृपं तद्दिने तत्स्थाने संस्थाप्य रक्ष्यताम् । तनिशम्य नृपोऽवक्नैतधुज्यते, निजस्य जीवातवेऽपरः कथं हन्यते ? एतत्तु महापापं वेभि । अपर एत्रमवदत्-राजन् ! भवान् तत्र दिने कुत्रचित्योतमुपविश्य स्वयमगाधे जले तिष्ठतु । यज्जले विद्युशैव पतति, अनेनोपायेन नूनमेवैतद्वचोऽलीकतामुषैष्यति । इतरोऽवदव-राजन् ! नैतद्विचारसहं प्रतिभाति, यतो विद्युत्तत्र मा पततु, पोत एव यदि जले निमजेत्तदा राजस्तदितरेषामपि प्राणसंशयः स्यादिति तदनु सुबुद्धिनामा मन्त्री न्यगदत-हे स्वामिन् ! ममोक्तमपि निश्चम्यताम् । अद्यतः सप्तदिनपर्यन्तं श्रीजिनेन्द्रो भगवान् मनोऽभीष्टसिद्धि| कारी भक्त्या सेवनीयस्तस्मिन् भक्ति कुर्वतः कदाप्यापत्तिनोंदेति । दानपुण्यादिधर्मकृत्यं यथेष्टं वितन्यताम् । सिंहासने च काष्ठमययक्षमूर्तिः स्थाप्यताम् । एतच्च नृपादिभ्यः सर्वेभ्योञोचत । ततो नृपः सप्त दिनानि तत्सर्वमकरोत् । सप्तमेहनि निमित्त
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy