________________
F
वली
२॥
I
परिणीता सा पतिगृहमागता निशि पतिपार्श्वमुपेता, निजप्राणनाथमेवं व्यजिज्ञपत - हे प्राणेश्वर ! अहं योग्यपतिकामनया यक्षमfig safचन्मालाकारस्य पुष्पाणि च्छभं गृहती तेनैकदा गृहीता, निरुपाया सति लग्ने स्वया प्रथमं मत्पार्श्वमागन्तव्यमिति तद्वचनमङ्गीकृतवत्यस्मि । अतस्तत्र गंतुमधुना मामनुजानीहि । ततो भर्त्राऽऽज्ञप्ता सा षोडशशृङ्गारसज्जिता तत्र गन्तुमेकाकिनी प्रतस्थे । मार्गे च कदौरा अरिन्, ते वद: परखानि लुमिपुः । तदा सा तानेवमव दे चौरा ! मामिदानीं मुञ्चत, अहङ्कस्यचिन्मालाकारस्य समीयं कृतां प्रतिज्ञां पूरयितुं भर्त्राऽऽदिष्टा व्रजामि, तत्र गत्वा प्रतिज्ञां पूरयित्वा पश्चादागमिष्यामि | तदा युष्माभिरेतानि भदानरणानि ग्राह्माणि । इत्थं तत्कथामाकर्ण्य ते ताममुञ्चन् । तदग्रे कश्चिचिरबुभुक्षितएको राक्षसस्तामालोक्य मुखं व्यादाय भक्षितुमधावत् । तदा सा तमपि निजवृत्तं सर्व निवेद्याऽनुनीय तमेरमप्रार्थयत् । को राक्षस ! इदानीं कृतां प्रतिज्ञां पूरयितुं व्रजन्तीं मां मुथ्य, तत्र गला प्रतिज्ञां परिपूर्याऽनेनैव मार्गेणाऽचिरादहमेष्यामि । तदाहं भक्षणीयेति तद्वचः श्रुत्वा तेनापि मुक्ता सा तन्मालाकारस्याऽन्तिकमागात् । सोऽपि तदागमनं प्रतीक्षमाण आसीत् । तामागतां सोऽपृच्छत्हे सुन्दरि ! त्वमिदानीं पतिमापृच्छ्य समागतासि उत ततञ्चैव १, तदा साऽऽख्यत - मयैतत्सर्व पत्ये निवेदितम् । तदनु तेनाऽऽदिष्टा वदन्तिकमागच्छामि । ततञ्छना न, यतो यो हि स्ववचनं विफलीकरोति, तस्य जीवितमपि सर्वैर्निन्द्यते । जीविसादपि निजप्रतिज्ञापालने भव्यैः प्रयत्यते इति प्रतिज्ञाम्पूरयितुमहमत्राऽगवास्मि त्वमपि यथोचितं विधाय मामनुगृहाण । इति तस्य वचनमाकलय्य मनसि चमत्कृतः स व्यचिन्तयत् । अहो ! धन्या किलेयम्प्रतीयते । या हिन्दसत्रचनरक्षार्थमतिदुष्करमपि चिकीर्षति । तथैतस्या भर्ताऽपि धन्यतरः । यो हि नवोढामीश त्रिभुवनाऽतिशय सौन्दर्यरत्नाकरायितामविप्रेयसीमी ह