________________
सत्रागत्य तयक्षं फलाढ्यमप्यत्युग्मतं विलोक्यैकया विधया तच्छाखां नीचैः कृत्वा फलानि गृहीत्वाऽपरया विद्यया तो शाखा | पूर्वपदकरोत् । एवं स चाण्डालो विद्याप्रमाणाऽशक्यमपि दोहदं प्रेयस्या अपूरयत् । परमतिस्वादिष्टं तत्फलं प्रत्यहं साऽवाचत । ततः पत्नीमोहेन स प्रतिरात्रं तत्र गत्वा तथैव तत्फलानि लातुं लग्नः । एवं सर्वाणि फलानि गृहीत्वा तेन स वृक्षः फलशून्यबके।
अथाऽन्यदा श्रेणिकनरेश एकस्तम्भीयसौधशिखरमारुह्य तदारामशोमां पश्यन् तदानशाखां फलशून्यामलोकत | तां तथा || | लोक्य स व्यचिन्तयत् । अहो ! इयमाप्रशाखा गगनचुम्बिनी विद्यते, कोप्येनामारोढुं न शक्नोति । रक्षका अपि सदैव परितो | रक्षन्ति । तथापि फलानि गतानि दृश्यन्ते । इत्याचयं गतः स्वबुद्धथा यदैतविणेतुं न शशाक, तदा राजा तमभयकुमारमा- 18 कार्य जगाद । हे कुमार ! त्वं मतिमानसि, अत एतदानचौर केनापि प्रकारेण गृहीत्वा समानय । इति नृपादेशमाकर्ण्य स मन्त्री चतुष्पथमागत्य पौरानेकत्रीकृत्यैवमाख्यत् | भो लोका: ! मद्वधनमार्णयत--पतिवरा काचिदेका धनश्रीनाम्नी कन्या स्त्रानुरूपपतिलिप्सया कस्यचिदेकस्य मालाकारस्पाऽऽरामे यक्षमन्दिरे प्रत्यहमागत्य तदुपयनीयरम्यैः कुसुमैः प्रश्छमप्रचितैस्तमभ्यर्च्य पुनर्निजस्थानमागात् । प्रभाते स मालाकारस्तत्रागत्य केनापि त्रोटितानि कुसुमानि ज्ञात्वा तचौरं जिघृक्षुरभूत् । अथाs- - न्यदा कुसुमानि विचिन्वती तां सोऽग्रहीत् । तत्पृष्टा च सा तमेवमुवाच अहं हि स्वानुरूपसत्पतिकामे तयक्षपूजार्थ पुष्पाणि 1 चिनोमि । मां मुञ्च, अतःपरं न ग्रहीप्यामि | अथ सद्रपेण मोहितः स तामेवमवादीत् । हे कन्ये ! परिणयानन्तरं यदि प्रथमं । मदन्तिकमागच्छेस्तदा त्वां मुञ्चानि । तत्रावसरे निरुपाया सापि तत्प्रार्थनमङ्गीकृत्य तन्मुक्ता निजालयमाप । फियत्कालानन्तरं ।