SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ली- पुलाद्विनिर्भस्थ राजा निजकार्य प्राविशत् । ततः सभामागत्य पूर्ववद्राज्यं पालयितुं लग्नः । अथ सत्यं विक्रम ज्ञात्वा श्रीकान्ता भृशमतुष्यत् । सर्वे लोकाः प्रमोदं दधिरे । तदनु तस्य मायाविनो विप्रस्य विग्रहं राजाऽदीदहत् । स दुष्टो विन आजन्म तिर्यग्रूपेण सस्थौ । एतस्मिन् प्रअन्धेऽयं सारोऽस्ति । यतिक्रमो विनयगुणयोगात्स्वयं विद्यामधिगभ्य, भावविनयादिमिर्गुरुशुश्रूषामकुर्वतेऽपि तस्मै विप्राय विद्यां दापितवान् । अतः सर्वैः सकलेटकार्यसाधनः सर्वतः श्रेयानसौ विनयो यत्नेन धर्तव्यः। किचोपदेशमालायामेवमलेखि-यथा श्रेणिको नृपश्चाण्डालम्प्रत्यपि विनयं कुर्वन विद्यां शिशिशे । अयमाशय:----यथा म चाण्डालमपि विद्यावन्त सिंहासनमुपवेश्य स्वयं कृताञ्जलिस्तदभिमुर्ख स्थित्वा विनयेन तस्माद्विधामग्रहीत, तथाऽन्यैरपि विधेयम् । अथ-विनयेन विद्याग्रहणोपरि श्रेणिकनृपस्य २६-कथायथा-राजगृहे नगरे श्रेणिको नाम राजाऽस्ति । सेन मन्त्रिपदे मतिमानभयकुमारः स्त्रपुत्रो नियुक्तः । तत्र चेकचाण्डालो। निवसति स्म । तस्य भार्या गर्भवती जाता । तस्या एकदा रसालफलभक्षणाय दोहदो जज्ञे । तदा सा प्रतिदिनमतिकशा | जाता । तां तथाऽऽलोक्य चाण्डालस्तत्कारणं तामपृच्छन् । साऽपि तत्कारणं समुत्पन्न तादृशं दोहदमाख्यत् । तदाकर्ण्य स मनसि चिन्तयति । अहो! अतिदष्करोऽसौ दोहदः । अकाले तत्फलं कथं लप्स्ये? अर्य दोहदो यदिन पूर्यत तर्हि ननमेषा में पत्नी दिनानुदिनं कशीभूय जीवित हास्यति । अतो येन केनापि यलेन तदानीयाऽस्या दोहदः पूरणीयः, इत्थं चिन्ता कुर्वता तेन स्मृतम् । यच्छ्रेणिकराजस्य चेल्लागाराश्या एकस्तम्भीयनिवाससौधो वर्तते । तत्र देवनिर्मितारामो वर्तते । तस्मिन्नतकलमिदानीमपि लभ्यते । साम्प्रतमन्यत्र कुत्रापि तव प्राप्तुं शक्यते । अतस्तत्र गत्वा तत्फलमानेतव्यमिति निश्चित्य स तत्रागमत् । -COMMAR IN
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy