SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ अतोऽहं गजशरीरे प्रविश्य तज्जीवयित्वा सर्वान मोदयिष्ये । त्वं मम कलेवरं सयत्नेन रथ । इत्याभाष्य राजा गजशरीरं प्रावि-15 शत् । तदा स गजो जिजीव, तेन सकला अपि पौरा अमन्दममोदन्त । तत्रावसरे स विप्रो व्यचिन्तयत्-अहो ! एष कोऽपि R राजा प्रतीयते । अतोऽहमप्येतच्छरीरम्पविश्य राजा भूत्वा राज्यसुखमनुभवेयमिति विचिन्त्य तत्क्षणं स राज्ञः कलेवरम्प्रविश्य हा लोकानां दृग्गोचरो जातः । ततो मन्त्रिप्रमुखाः सर्वे पौरा महामहेन तं राजसदनं निन्युः । विद्यां लात्वा राजा समागादिति सर्वे जहपुः । महामहं वितेनुः सिंहासने च तमारोपयामासुः । अथान्तःपुरेऽपरिचितमिव साशङ्कमायान्तं तमालोक्य श्रीकान्ताभिधाना राझी मनसि दध्यौ । यथा-एतच्छरीरमात्र राज्ञोऽस्ति, परमसौ विक्रमो नास्ति, कोऽप्यन्यो विद्यारलेन तच्छरीरं प्रविश्य समागतो भाति, यदेवमायाति । ततस्तदैव सा प्रधानमाकार्य सर्वमपि तवेष्टितमाचचक्षे ! ततस्ताम्यां मन्त्रयित्वाऽन्तःपुरे तदा| गमो न्यरोधि । एतत्स्वरूपं ज्ञात्वा मजतनुप्रविष्टो राजा वनमगात । तत्र तत्पुद्गलं विहाय कीरतनुं प्रविश्य तद्रूपेण श्रीकान्ता : 1 राज्ञीसमीपमाययौ । साऽपि तङ्कीरमतिप्रेग्णा स्वसमीपे स्थापितवती । तस्मिन् कीरे राश्या महान् रागोऽभूत् । एकक्षणमपि हो तद्वियोग नैच्छत् । तत्पश्चादेकदास कीरविनइं त्यक्त्वा सरटोऽभवत् । तदा कीरंमृतमालोक्य राझी भृशं शोकमकरोत् । किंबहुना ? * द्वियोगमसहमाना सापि मर्तुकामाज्जायत । तत्रावसरे नृपीभूतो विप्रस्थामाख्यत् । अयि रात्रि ! त्वं मा नियस्व । एनं कीर- | महं जीवयामि । साप्यक्क्-अस्मिञ्जीविते सत्येव मम जीवितं स्थास्यति । नो घेदवश्यङ्गमिष्यत्येव । तत्र सन्देई मा कृथाः । अथैकान्ते स्वशरीरं विहाय कीरपुद्गले समाविशद्विप्रजीवः । कीरे सघः पुनरूज्जीविसे सा राशी तुवोष। अथाऽवसरं वीक्ष्य सरट
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy