SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ F वली- ९॥ किच-- येषां सदने लक्ष्मीस्तिष्ठति तद्गृहे सरस्वती न विद्यते येषां गृहे महती चिया विराजते, तत्र लक्ष्मीर्न निवसति । यत्रैये द्वे वर्तेते, तत्र कुटुम्बो न वर्तते । यत्रैते श्रयो विद्यालक्ष्मीकुटुम्बा वर्तन्ते तस्य जन्माऽभयकुमारवत्स फलम्भवति ॥ २८ ॥ अथ ९ - सद्विवेकविषये - I • हृदय घर विवेके प्राणि जो दीप वाले, सकल भव तणो ते मोह अंधार नाशे । परम धरम वस्तू तत्त्व प्रत्यक्ष भासे, करम भरम कीटा स्वांगतेता विनाशे ॥ २९ ॥ येषाम्प्राणिनां हृदयसदने विवेकात्मको दीपो विभाति तेषामखिलभवभ्रमणकारीणि मोहरूपतमांसि नश्यन्ति । ततस्ते परमस्य धर्मवस्तुनस्तच पश्यन्ति । पुनस्तत्र दीपे निपतन्तः कीटाः - कर्मशलभास्तत्कालं श्रीयन्ते । अयमाशयः - यस्य हृदये विवेको - दीपक इव प्रज्वलति तस्मिमविषेको विलयं याति । ततः स यथास्वरूपं वस्तुतवं जानाति ।। २९ ।। विकल नर कहीजे जे विवेके विहीना, सकल गुण भर्या जे ते विवेके विना । जिम सुमति पुरोधा भूमि गेहे वसंते, उगति जुगति कीधी जे विवेके उगते ॥ ३० ॥ इह हि विवेकहीना नरा विकला अधमा निगद्यन्ते । विवेकवन्तो जनाः सकलगुणलसन्त उत्तमेषु कार्येषु रज्यन्ते । विषेकादेव वस्तुनः सदसद्रूपता ज्ञायते । अतस्तद्वन्त उत्तमास्तद्विहीना विकला उच्यन्ते । यथा सुमतिनामा कश्चित्प्रधानो निजराजानं गृहेऽक्षिपत् । परन्तु स राजा ततोऽपि सङ्कटाद्विवेकगुणयोगात्सदसत्वं विचार्य निर्मुक्तो जातः । एतत्कथा ग्रन्धान्तरे वर्तते । - इह तु प्रसङ्गत इयत्येवादर्शि ॥ ३० ॥
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy