________________
क
कावली
३८ ॥
कदा पञ्चापि पाण्डवाः सभायां सुखासीना आसन् । ते च नगरेऽशशीतिसहस्रतापसानामागमनं शुश्रुवुः । ततस्ते सर्वे तैर्निमन्त्रिताः । परं ते तापसा ग्रीष्मतापसन्या आम्रफलैरेव पारणञ्चिकीर्षन्ति स्म । तेषां तामिच्छामाकर्ण्य पाण्डवा महती - चिन्तामधिगताः । अहो ! साम्प्रतमकाले रसालफलानि कुतो लभ्यन्ते १ । येनास्माकञ्चिन्तितं सिद्धयेत्, तत्रावसरे नारदर्षि - स्तत्रागात । स तांचिन्तातुरान् वीक्ष्यावदत् । भोः पाण्डवाः ! अद्य यः का चिन्ता समापतिताऽस्ति १ । वे जगदुः दे महर्षे ! अद्यास्माभिरष्टाशीतिसहस्रतापसा निमन्त्रिताः । ते चाम्ररसेनैव व्रतपारणञ्चिकीर्षन्ति । इदानीमसमये तानि लब्धुं न शक्यन्ते । इति चिन्ता नो जाताऽस्ति । यदि तांस्तद्रसैर्न भोजयेम तर्हि नः प्रतिज्ञा भग्ना स्थान समसि, तदुपायं वद । तदा नारदो जगाद - तमुपायं वच्मि यूयं शृणुत । ते समृचिरे सत्वरं ब्रूहि, हे पाण्डवाः ! यदीदानीं शुष्कमाम्रबीजं रोपयेत्, तदङ्कुरीभूय झटिति वर्खेत, फलपुष्पादिकं जायेत तेपाम्परिपक्व फलैरेतेषां पारणं सम्भवेदन्यथा कोऽप्यन्यो नास्त्युपायः । एनमप्यसम्भवं मत्वा ते श्चिन्तां न तत्यजुः । पुनस्ते नारदञ्जगदु: - हे ऋष ! यदुक्तं भवता तदपि नो दुष्करमेव प्रतिभाति । तेनोपायान्तरंणैतत्त्वमेव सत्वरं सम्पादय । नो चेदस्माकं प्रतिज्ञाहानिर्भविष्यति । तदोक्तं नारदेन । हे कौन्तेयाः १ मा शोचत । अहमिदानीं त्वत्प्रेयसीं द्रौपदी सर्वमेतदिशमि । यदि सा सत्यं वक्ष्यति तदा तदर्थमहं यतिष्ये । इते तन्निगद्य तत उत्थाय स तं द्रौपदीभवनमगमत् । तत्र गत्वा वत्स तस्यै निषेध यत्प्रष्टव्यमासीत्तदपृच्छत् । नारदोक्तं सर्वमाकर्ण्य द्रौपद्यवऋ । हे महर्षे ! अहं किल त्वद सत्यं वच्मि । अहं सत्यशीलाऽस्मि, अर्तुः प्रतिज्ञां पूरयितुं शक्नोमि । अत्र मनागपि सन्देहं मागाः । ततस्त्रां सोऽवक्— अयि पाञ्चालि ! यद्येवमस्ति । तर्हि सत्वरमेकं शुष्कमा प्रबीजं रोपय, निजशीलप्रभावेण तत्सपल्लवीकृत्य फलाक्यं शिषेहि । ततः सापि तत्काल
I