________________
४ यती तावत्येव संक्षेपेण सत्कथा दर्शिताऽस्ति ।
____ अथाऽञ्जनासुन्दरी तत्र हनुपुरे मातुलगृहे निवसन्ती पुत्रस्य हनुमतः पोषणादिकं विदधती मातुल्यादिकृतसत्कारेण सुखेन । दिनान्यत्यवाहयत् । पतिप्रस्वा दत्तकलतः कदा मे मुक्तिः स्यादिति मनसि विचिन्तयन्ती पत्युरागमनमिच्छन्ती तस्थुषी । अथ पवनञ्जयकुमारस्तत्र गत्ता वरुणेन सह दशकन्धरस्य सन्धि विधाय निजादित्यपुरमागतवान् । तत्र निजप्रेयसीमञ्जनामदृष्ट्वा लोक- 18 मप्राशीत । ताङ्गर्भवतीमालोक्याऽसीति ते मात्रा गृहानिर्वासिता सेति लोकमुखाद्विज्ञाय गिरिवननगरादिषु तामन्वेषयन् यदा सा ! न मिलिता सदा, प्रियाविरहमसहमानः स चिताप्रवेशमवधारितवान् । एतत्स्वरूपमञ्जनासुन्दरी स्वगवेषणकृते तत्प्रेपितविद्याधरमुखाद्विज्ञाय निजमातलं प्रतिसूर्यनामानं सार्थ कृत्या विमानमारुह्य तत्क्षणं तत्राऽऽययौ यत्र पवनञ्जयश्चिताप्रवेष्टुमुदयुक्त । तन्त्र प्रहादप्रसिमर्थप्रमुखैः सर्वैः सह मिलिता भर्तार कुशलं वीक्ष्य मा भृशममोदत । सर्वे च तस्यां निःशकमनसो बभूवुः । अञ्जनायाश्च लोके शीलमाहात्म्यं प्रख्यासमभृत् । पतिप्रस्वादकोऽपि कृताऽपराधं तदानीं तां क्षमयामासुः । दुर्जना गुणवते दोषाननेकान ददति । परमेतेन गुणिनां सन्तो गुणा न दीयन्ते किन्तूपचीयन एच । निर्मलशीलप्रभावेण मिथ्याकलकतो मुक्ता दहनसन्तापिता कनकलविकेचा साऽञ्जना भृशं दिदीपे।
अथ सजनगुणविषयेगुण गहि गुण जेसां ते यह मान पाले तर. सुरलि गुणे ज्यू फूलाशिवदाले । गुण करि बहु माजे, लोक ज्यूचनमाने, अति कृशा जिसःमाने पूर्णने यंत्रमाने ॥१५॥ .