________________
मुद्रां देहि । मातरं मिलित्वा पुनर्याहि तच्छ्रुत्वा मुद्रिकां इच्चा तेनोक्तम् । अपि प्रिये ! एनां गृहाण । अहमचिरादा-गमिष्यामि का ते भीतिः १ । इत्यालप्य स शिविरं प्राप्तः । सापि ऋतुस्नानात्तद्दिन एवं दिव्यं गर्भ दधार । ततोऽन्वहं म वृद्धिमालोक्य श्वशुरादिपरिवारो बच्यो । अहो ! इयः कुलङ्कलङ्कितमकरीद | अस्या भर्ता तु द्वात्रिंशतिवर्षमध्ये एकदापि न मिलितः । कथमियमन्तर्वत्नी दृश्यते १ नूनमसती जाता । तत एतत्स्वरूपमञ्जनामपृच्छत् । सा तद्दिने यथा भर्ता शिबिरादागत्य स्वनामाडियां मुद्रां दवा पश्चाद्योमचलत्तथा सर्वमाख्यत् परं तद्वचः केऽपि न मेनिरे । सर्वे च लोकास्तां निर्भ गृहाणिष्काशयामासुः । ततो निष्काशिता सा पितृसन समागता । तेऽपि तत्स्वरूपं विदन्तस्तां कुलकलङ्गिनीं मन्यमाना निर्भ
गृहनिष्काशयामासुः । ततः सर्वतो निष्काशितानासुन्दरी वनमागत्य कुत्रापि तस्थौ । तत्रैव कुत्रापि गहरे पुत्रमसोष्ट | कदा तेनैव मार्गेण विमानारूढस्तन्मातुलो ब्रजन् गिरिगहरे शिशुरोदनमाकलय्य विमानादवतीर्य तत्र गत्वा तामपश्यत् । तस्या आदितः सर्वमुदन्तं निशम्य सपुत्रां तां निजविमाने समावेश्य ततोऽग्रे चचाल ! मार्गे च मातुरके स्थितः शिशुः किञ्चिल्लामुच्छलन्नधः शिलोपरि पपात । पतन्तं तं वीक्ष्य व्याकुलस्तन्मातुलो यावद्विमानादवतीर्य समादातुमधस्तत्रागतः तावत्तत्र बजाहृतचूर्णितां शिलां पश्यन् बालकमचताङ्गमेव हसन्तमग्रहीत् । ततस्तमादाय निजविमानेऽञ्जनायै ददौ । ततस्ताभ्यां सह स हनुपुराभिधं निजनगरमागतः । व्रतस्तदीयनाम मात्रा हनुमानिति चक्रे । विमानात्पतन् स शिलां सच्चूर्णितवान्, अतो द्वितीयं नाम श्रीशैल इति धृतवती । एतत्कथा रामचरित्रादौ सविस्तरमस्ति । इतोऽधिका तत एवाध्वगन्तव्या । इह तु यावत्युरोग.