________________
ॐ ससैन्यस्तत्र गमनाय समुद्युक्तवान् । तत्रावसरे पवनञ्जयेनोक्तम्-हे पितः! एतदर्थ त्वया किं गम्पते । अहमेव तत्र गत्वा रावण
वैरिण वरुणं विजित्य सत्वरमत्रागमिष्यामि । ततः पित्राऽऽदिष्टः स सांज्जतसैन्यो भातरं नमस्कृत्याञ्जना तु क्रूरष्टकोणेन किश्चिद्वीक्षमाणः प्रतस्थे । तदा तयोक्तम्-हे नाथ ! मया क्रिमपराद्धं येन त्वं मयि रुष्टोऽसि ?! सर्वे त्वयाऽऽलाषिताः । मया सह कर्थ न ब्रूषे ? अहं निरपराधाऽस्मि । मयि प्रसीद, तव पथि कुशलं वर्तताम् ! तथा कार्यसिद्धिं विधाय सत्वरमिहागच्छेरित्वं कल्याणं चचो त्रुवाणां तामगणयन्मेव सोऽचलत् । ततोऽञ्जनापि देवदोषं ददाना पतिविरहादतिदुःखिनी निजावासमागवा । इतश्च प्रस्थितः ।। परनञ्जयोऽपि सन्ध्यासमये मानससरोवरोपरि सपरिवारस्तस्थौ । तत्रावसरे काश्चिद्वियोगिनीमतिदुःन्विनी पुरःस्थितं तन्तुजालमश्नन्ती शीतमपि दहनं मन्यमानां चन्द्रिकामपि तापकरीं पश्यन्ती करुणमत्युचे रुदतीं विदूरे प्राणनाथं वीक्षमाणां चक्रवार्की सोऽपश्यत् । तां ताशीमालोक्य स मनसि व्यचिन्तयत् । अहो ! इयञ्चकोरी सकले दिने पतिसङ्गता तत्सुखमनुभवति, केवलं रात्रावेव पतिवियुक्ता यद्येवं दुःखम्भजते, तर्हि आजन्मपरित्यक्ता मत्पत्नी कीदृशी दु:खिनी स्यात् ।। अद्य गमनसमये तया भणितो
ऽपि नाह किमप्यूचे । सा कथमात्मानं धतुं शक्ष्यति ? । विरहपीडिता सा महादुःखमनुभवन्ती नूनं मरिष्यति । इत्यं पश्चाचपमान र तम्प्रहसितोऽवक् । हे मित्र ! त्वं पक्षितोऽपि निकृष्टोऽसि त्वत्परिणयस्प वर्षाणांद्वाविंशतिर्जाता । कदाप्येकदा सा त्वयालापितापि
न । त्वद्विरहेण नूनं म्रियमाणा वर्तते । तस्याः कोऽप्यपराधो नास्ति । हे मित्र ! इदानीमपि तत्र गत्वा तामाश्वासय । सतो निजाभिप्रेतं मित्रवाक्यमाकर्ण्य सर्वैरप्पलक्षितः स प्रहसितेन वदनेन साकं तस्या आवासमागतवान् । तत्र विरहातुरां तामाश्वास्य अनुदानं दत्वा पश्चाचलितं तमवादीत्सा । त्वमेतद् गुप्तं सर्व विधाय गच्छसि । माता ते मामपवदिष्यति । अवो मे निजनामा