SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ३६ ] परिशिष्ट १ ततस्तत्कारणं ज्ञात्वा कृत्स्नं चैवमशेषतः । देवव्रतो महाबुद्धिः प्रथयावनुचिन्तयन् । अभिगम्य दाशराजानं कन्यां वने पितुः स्वयम् ||२६|| एवमेतत्करिष्यामि यथा त्वमनुभापसे । योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति ॥ २७ ॥ इत्युक्तः पुनरेवाथ तं दाशः प्रत्यभाषत । राजमध्ये प्रतिज्ञातमनुरूपं तवेब तत् ॥ २८ ॥ नान्यथा तन्महाबाहो संशयोऽय न कश्चन । तवापत्यं भवैद्यन्तु तत्र नः संशयो महान् ||२६|| तस्य तन्मतमाज्ञाय सत्यधर्मपरायणः । प्रत्यजानात्तदा राजन् प्रियचिकीर्षया ॥ ३०॥ दाशराज निबोधेदं वचनं मे नृपोत्तम । अद्यप्रभृति मे दाश ब्रह्मचर्य भविष्यति ||३१|| तस्य तद्वचनं श्रुत्वा संप्रहृष्टतनूरुहः । ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत ॥३२॥ ततोन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तथा । अभ्यवर्षन्तकुसुमैर्भीमोज्यमिति चाब्रुवन् ॥३३॥ ततः स पितुरर्थाय तामुवाच यशस्विनीम् । अधिरोह रथं मातर्गच्छावः स्वगृहानिति ॥ ३४ ॥ एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भामिनीम् । आगम्य हास्तिनपुरं शंतनोः संन्यवेदयत् || ३५ ॥ ततो विवाहे निवृत्ते स राजा शंतनुर्नृपः । तां कन्यां रूपसंपन्नां स्वगृहे संन्यवेशयत् ॥ ३६ ॥ [ ५३
SR No.090481
Book TitleSugandhdashmi Katha
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year1966
Total Pages185
LanguageHindi, Apbhramsa
ClassificationBook_Devnagari, Story, & Biography
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy