SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १२ ] [२५ सुगंधदशमी कथा कन्याने पिने चापि नशं शने दिगोगा । गन्तुं गृहं गृहे चाहं धीमन्न स्थातुमुत्सहे । एतत्संचिन्त्य भगवान् विधत्स्व यदनन्तरम् ॥ १२ ॥ एवमुक्तवती ता तु प्रीतिमानृषिसत्तमः ! उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि 11 १३ ।। वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि । वृथा हि न प्रसादो में भूतपूर्वः शुचिस्मिते ।। १४ ॥ एनमुक्ता बरं बने गात्रसौगन्ध्यमुत्तमम् । स चास्य भगवान्प्रादान्मनसः काङ्कितं प्रभुः ॥ १५ ॥ ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता । जगाम सह संसर्गमृषिणाद्भुतकर्मणा ।।१६।। तेन गन्धवतीत्येव नामास्याः प्रथितं भुवि । तस्यास्तु योजनाद्गन्धमाजिघ्नन्ति नरा भुवि ॥१७॥ ततो योजनगन्धेति तस्या नाम परिश्रुतम् । पराशरोऽपि भगवाजगाम स्वं निवेशनम् ||१८| स (शन्तनुः) कदाचिद्वनं पातो यमुनामभितो नदीम् । महीपतिरनिदेश्यमाजिघ्रद् गन्धमुत्तमम् ॥१९॥ तस्य प्रभवमन्दिच्छविचचार समन्ततः । स ददर्श तदा कन्यां दाशानां देवरूपिणीम् । समीक्ष्य राजा दाशेयों कामयामास शंतनुः ॥२०॥ स गत्वा पितरं तस्या वरयामास तां तदा। स च तं प्रत्युवाओवं दाशराज्ञो महीपलिम् ॥२१॥ यदीमा धर्मपत्नों त्वं मत्तः प्रार्थयसे मघ । सत्यवागसि सत्येन समयं कुरु मे तत: बा२२॥ अस्यां जायेत यः पुत्रः स राजा पृथिवीपतिः । स्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव ।।२३।। नाकामायत तं दातुं वरं दाशाय शंतनुः । शरीरजैन तीव्रण दह्यमानोऽपि भारत ।।२४।। स चिन्तयन्नेव तदा दाशकन्यां महीपतिः । प्रत्ययाद हास्तिनपुरं शोकोपहृतचेतनः ॥२५॥
SR No.090481
Book TitleSugandhdashmi Katha
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year1966
Total Pages185
LanguageHindi, Apbhramsa
ClassificationBook_Devnagari, Story, & Biography
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy