________________
शान्तिनाथस्तोत्रम्
खद्योती किमुतानलस्य कणिके शुभ्रानलेशापथ, सूर्याचन्द्रमसाविति प्रगुणितो लोकाक्षियुग्मैः सुरैः । तक्यते हि यदग्रतोऽतिविशदं तद्यस्य भामण्डलं, सोऽस्मान् पातु निरञ्जनो जिनपतिः श्रीशान्तिनाथः सदा।।५।। यस्याशोकतरुर्विनिद्रसुमनोगुच्छप्रसक्तः क्वणद्, भृङ भक्तियतः प्रभोरहरहर्गायन्निवास्ते यशः । शुभं साभिनयो मरुचललतापर्यन्तपाणिश्रिया, सोऽस्मान् पातु निरञ्जना जिनपतिः श्रीशान्तिनाथः सदा।।६। विस्तीर्णाखिलवस्तुतत्वकथनापारप्रवाहोज्ज्वला, निःशेषार्थिनिषेविताऽतिशिशिरा सलादिवोसङ्गतः । प्रोद्भता हि सरस्वती सुरनुता विश्वं पुनाना यतः, सोऽस्मान् पातु निरजनो जिनपतिः श्रीशान्तिनाथः सदा॥॥७॥ लीलोद्वेलितबालकङ्कणरणत्कारप्रहृष्ट : सुरैः, चञ्चचन्द्रमरीचिसञ्चयसमाकारैश्चलचामरैः । नित्यं यः परिवीज्यते त्रिजगतां नाथस्तथाऽप्यस्पृहः, सोऽस्मान् पातु निरञ्जनो जिनपतिः श्रीशान्तिनाथः सदा।।८॥ निःशेषश्रुतबोधवृद्धमतिभिः प्राज्यरुदारैरपि, स्तोत्रयस्थ गुणार्णवस्थ हरिभिः पारो न सम्प्राप्यते । भव्याम्भोरुहनन्दिकेवलरविर्भक्त्या मयाऽपि स्तुतः, सोऽस्मान् पातु निरजजनो जिनपतिः श्रीशान्तिनाथः सदा।।९।।