________________
शान्तिनाथस्तोत्रम्
नमो नम्रजनानन्द, स्यन्दिने माघनन्दिने । जगत्प्रसिद्ध सिद्धान्तवेदिने चित्प्रमोदिने ॥ २५ ॥ इति चनुविशतितीर्थङ्करस्तवनं समाप्तम् || शान्तिनाथस्तोत्रम्
८७
त्रैलोक्याधिपतित्वसुचनपरं लोकेश्वरैरुद्धतं, यस्योपयु परीन्दुमण्डलनिभं छत्रत्रयं राजते । अश्रान्तोद्गत केबलोज्ज्वलरुचा निर्भसितार्कप्रभं, सोऽस्मान् पातु निरञ्जनो जिनपतिः श्री शान्तिनाथः सदा ॥ | १ || देवः सर्वविदेव एष परमो नान्यस्त्रिलोकीपतिः, सन्त्यस्यैव समस्ततस्वविषया वाचः सतां सम्मताः । एतद् घोषयतीव यस्य विबुधैरास्फालितो दुन्दुभिः, सोऽस्मान् पातु निरज्जनो जिनपतिः श्री शान्तिनाथः सदा || २ || दिव्य स्त्रीमुखपङ्कजैकमुकुरप्रोल्लासिनानामणिस्फारीभृत विचित्ररश्मिरचितानम्रामरेन्द्रायुधैः । सच्चित्रीकृतवान सत् सिंहासने यः स्थितः, सोऽस्मान् पातु निरजनो जिनपतिः श्रीशान्तिनाथः सदा ॥ | ३ || गन्धाकृष्टमधुवतत्ररुतैर्व्यापारिता कुर्बती,
स्तोत्राणीव दिवः सुरैः सुमनसां वृष्टिर्यग्रेऽभवत् । सेवायात समस्त विष्टपपतिस्तुत्याश्रयस्पर्धया,
सोऽस्मान् पातु निरजनो जिनपतिः श्री शान्तिनाथः सदा || ४ ||