________________
८४
चतुर्विशतितीर्थङ्कर स्तवनम्
परमचन्द्रनाथसञ्चरणपजद्वयं । स्मरतघस्मरस्मय, स्मरशरासनापहं |॥ ८॥ पुष्पवाणमदमर्दने, पुष्पदन्तसमदीधितौ । पुष्पदन्तपदपङ्कजे पुष्पलिङ भवतु मन्मनः ।। ९ ।। जातिजरातङ्कातुरखेदात् कौतुकभीतिप्रीतिविषादात् । पातकपाकात् जातनिदाघ शीतलनाथः पातु बुधौध।।१०।। श्रेयः पथद्योतकमेकरूपं, श्रेयस्करं शाश्वतबोधसौख्यं । श्रेयः समृध्यर्थमहं नमामि, श्रेयांसमहन्तमनायनन्तम् ।।११
जिनो वासुपूज्यो मनीषिप्रपूज्या, स्वनिर्दोष निवेष नित्यप्रकाशः । तनोतु सुवेषाभिलाषोत्सुकानांमनोदोषनि: शेषनिष्पेष्यवेषः ।। १२ ।। पत्युस्ते विमलजिनेन्द्र ! विष्टपानां, नित्यश्रीसदनसमं पदारविन्दम् । प्रीत्याहं प्रतिदिनमानतोऽस्मिसाक्षात्प्रत्यक्षीकृतसकलार्थसिद्धय ।। १३ ।। चिन्ताविषादमदखेदबराकृतान्त, सन्तापरमभवं भुवनैककान्तं । चिन्तामणि दिविजभृतमनाद्यनन्त, शान्तं निरन्तरमहं प्रणमाम्यनन्तं ।। १४ ।।