________________
चतुर्विशतितीथङ्कर स्तवनम्
द्युतिजितदिननाथः सर्वविधद्य सनाथः,
प्रतिहतरविनाथः श्रीवधूप्राणनाथः | शतभखनाथः साङ्गपूर्वाक्षनाथ, कृतहितगणनाथः पातु मां धर्मनाथः || १५ ||
1
शान्तिजिनमहं नमामि शान्तमन्तकान्तकं, कान्तिविजित सोमसूर्य लक्ष कोटिदीधितम् । शान्तिकरमनन्तबोधदीर्य सौख्यमक्षयं, आन्तिरहित भव्य सेव्यपादपङ्कजङ्कयं ।। १६ ।।
ग्रन्थग्रन्थिग्लपनरहितं धीमतां यस्य रूपं पन्थाः साक्षाञ्जगति विदुषां श्रेयसो यस्य धर्मः । मन्थादीन्द्रः श्रुतशतसुधावारिधेर्यस्य तर्कः, कुन्थुः पायाजिनपतिरयं सर्ववन्द्यः || १७ ||
देवदुन्दुभिपुष्पवृष्टिसितातपत्र सुचामरैः । भाविशेषमृगेन्द्रपीठसुनाद पिण्डिमभृरूहैः ।।
፰፶
यो विभाति निरञ्जनो निरुपाधिबोधसुधानिधिः । सोऽवतात् परमेश्वरोऽरजिनेश्वरो जगदीश्वरः ||१८||
कामक्रोधकलङ्ककर्मकपटक्रीड़ाकृतान्तक्षयः ।
क्षामक्षेत्र कषाय कुञ्जर घटा सञ्चारपञ्चाननः ॥ हेमक्ष्माधररम्य पाण्डुकशिला जन्माभिषेकोलस, छीमान मल्लिजिनेश्वरो दिशतु नः श्रेयः पदं शाश्वतम् १९