________________
शान्ति वाम
सहस्राच्छाच्छन्दः स्तुतिशिखरिणी यस्य विमला | श्रिये जायेताऽसौ प्रथमजिनदेवः पुरुपतिः ।। ८ ॥ विद्यानन्देन मुनिना निर्मितोऽयं पुरुस्तकः । पठतां मन्यसरवानां भूयात् सर्वसुखावहः ।। ९॥
इति पुरुदेवाष्टकम्
शान्तिस्तवनम् चिद्रूपभावमनवद्यमिदं त्वदीयं, ध्यायन्ति ये सदुपधिव्यतिहारमुक्त । नित्यं निरञ्जनमनादिमनन्तरूपं, तेषां महांसि भुवनत्रितये लसन्ति ।। १ ।। ध्येयस्त्वमेव भवपञ्चतया प्रसार ! निर्नाशकारणविधौ निपुणत्वयोगात् ।
आत्मप्रकाशकृतलोक तदन्यभाव, पर्यायविस्फरणकत् परमोऽसि योगी ।। २॥ स्वनाममन्त्रधनमुज्ज्वलजन्मजात, दुष्कमदायमभिशम्य शुभाराणि । व्यापादयत्यतुलमक्तिसमृद्धिमाञि, स्वामिन् ! यतोऽसि शुभदः शुभकृत्यमेव || ३ ।। स्वत्पादतामरसकोषनिवासमास्ते, चिचद्विरेफसुकृती मम यावदीश !