________________
श्री आदिनाथस्तोत्रम्
प्राणातिपातिता पूर्व, मृषावचनभाषितं । हृतानि परद्रव्याणि परदाराः सुत मद्यमांसमधुमक्षैः, बह्वारम्भपरिग्रहैः । लुब्धबुद्धया मया नाथ ! कृतं पापं सुदारुणं ॥ १० ॥ तेन पापेन सम्वेष्टय, बहुशः बहुजन्मनि ।
,
प्राप्तं दुखं मया नाथ ! ह्यधुना शरणं गतः ॥ ११॥ संसारदुःखसंत्रस्त, आगतोऽस्मि महामुने ! नान्यच्चरणमस्तीति मया ज्ञातं सुनिश्चितं ॥१२॥ स्वं त्राता भवभीरूण, प्राणिनां दुःखभागिनां । दाता स्वर्गापवर्गस्य त्वमेकः परमो गुरुः ||१३|| दयासत्यादिसंयुक्त, सुधर्मं परमं शुभं ।
"
1
कथितं सिंहनादेन त्वमेकः परमोदयः || १४ || त्वं मे भगवन् ! स्वामी त्वं माता त्वं पितामहः । त्वं च बन्धुरबन्धूनां त्वमेकः पुरुषोतमः ||१५|| ब्रह्मस्थाने स्थितो यस्मात् स ब्रह्मा परिगीयते । विष्णुत्वं च त्वया प्राप्तं व्याप्तं ज्ञानार्करश्मिभिः || १६ रूद्रस्त्वं रौद्रकर्माणि हत्वा ध्यानदह्निना । दिव्यैश्वर्यसमायुक्त, ईश्वरस्वमुपागतः ||१७||
Į
दाता सुखं च भूतानां शङ्करत्वं प्रतिष्ठितः । महाव्रतोपदेशेन, महादेवोपगम्यते ।। १८ ।।
७७