________________
७०
चतुर्विशतितीर्थराणां स्तुति:
भूदारध्वजराजितं वर सुरभ्यापुत्रमीडे जिनं, श्रीराजाहरिसेनानं शिवप्रदं सजानरूपद्यति । दोषाष्टादशवर्जितं च विमलं सत्पष्टिचापोन्मतं, वैमन्यार्थकर सदैव विमलं तसिद्ध ये कामदं ।। १४ ॥ मास्वड्पसमुद्भवं वरजयश्यामासुतं पावनं, पापाचारनिवर्हणार्थमनघ-स्थानाय चेडे जिनं । पञ्चाशद्वरकार्मुकोपमतनुं मर्मयुति शर्मदं, चानन्तं गुणमन्दिर हरिनुतं सेधाङ्कितं सुन्दरं ।। १५ ।। राजा भानुभवं जिनोत्तममहं श्रीसुव्रतानन्दनं, बज्राङ्क तपनीयभं शुभप्रदं श्रीधर्मनाथं सदा | सद्धर्माय भजे समर्थपददं त्रैलोक्यभूपार्चित, पञ्चाधिर्धनुराजितं हतमलं दुष्पापहान्य मुदा || १६ ।। सच्चामीकरवर्मदीप्तिसुभगं श्रीशान्तिनाथं प्रभु, श्रीराजारवितेजदेहप्रभव स्तुत्यं सदा कौरवैः । ऐरादेविसुतं भवाब्धिमथक चातायुचिह्वान्वितं, खाब्धिचापतनुं सुरेश्वरबजवन्धं समी विक्षु ॥ १७ ॥ संसारातपजित जिनवरं श्रीकुन्धुनाथं प्रभु, मझमच्छविराजितं भयहरं लक्ष्मीमतिनन्दन । श्रीराजाशुभदर्शनोद्भवमहं वन्दे स्तभाङ्क मुदा, पञ्चाग्निप्रमकार्मुकोपमतनुं सत्कौरवाणां मणिं ।। १८ ।।