________________
चतुविशांततीर्थङ्कराणां स्तुतिः
संसाराम्बुधिपारदं जिनपति चन्द्रप्रभ मोसद, सुग्रीवाभिधभूपज गणपतिं सलक्षणानन्दनं । शुभ्रांशुब्छविराजितं वरशिवयोषारतं निर्मलं, वन्दे चापशतैक चार्द्धप्रमकं वष्म मृगाकारितं ।। ९ ।। सद्गाराभिधदीप्तिदेहसुभगं श्रीपुष्पदन्तं जिनं, संसेव्ये दृढभूपजं शतधनुर्दैहोन्नतं शर्मदं । त्रातारं शरणार्थिनां च प्रथरोमाकेतुयुक्त बरं, श्रीरामातनयं विशुद्धपदकं चेक्ष्वाकुवंशोद्भवं ।। १० ॥ रुक्मानं विमलाख्यभूपतनुजं नन्दासुतं नन्ददं, श्रीवृक्षाधरं जिनेश्वरमहं श्रीशीतलं तारकं । भव्यानां भवसिन्धुदुःखनिचयात् कर्मातिसंहारक, संवन्दे नरतिशरासनप्रमं सद्विग्रहं निर्मदं ।। ११ ।। खङ्गावरहाटकोपमतनु श्रेयांसनाथ जिन, विष्णुदेविसुनन्दनं कृतघृषभूपोद्भवं सच्छिये । लेखाधीशगणैः सदैवमहितं चाशीतिचापोभतं, स्तौमि प्रार्थितशर्मदं वरमुदा सन्मङ्गलार्थं सदा ।। १२ ।। श्रीराजा वसुपूज्य भवहरं सत्पनरागप्रभं, पूज्यं सन्मुनिपुङ्गवर्जिनवरं श्रीवासुपूज्यं विभु। कर्मारातिहरं जयासुतमहं वाहाक्षितं संस्तुवे, मोक्षार्थ वरचापसप्ततिप्रमं देहोन्नतं सर्वदा ।। १३ ।।