________________
भोगनिद
देव
तत्सेवासुखमित्यत्र दचमेवोचरं पुरा । तत्सेवी तीव्रमायस्तः कथं वा सुखभागु भवेत् ||२८|| पश्यैते विषयाः स्वप्नभोगाभा विप्रलम्भकाः | अस्थायुकाः कुतस्तेभ्यः सुखमार्चधियां नृणाम् ||२९|| विषयानर्जयन्नेव तावद् दुःखं महद् भवेत् । तद्रसाचिन्तने भूयो भवेदस्यन्तमार्त्तधीः ||३०| तद्वियोगे पुनर्दुःखम् अपारं परिवर्तते । पूर्वानुभृतविषयान् स्मृत्वा स्मृत्वावसीदतः || ३१ ॥ अनाशितम्भवानेतान् विषयान् विपयायिनः | येषामासेवनं जन्तोः न सन्तापोपशान्तये ।। ३२ ।। वह्निरिवेन्धनैः सिन्धोः स्रोतोभिरिव सारितैः । न जातु विषयैर्जन्तोः उपभुक्तैर्वितृष्णता ||३३|| क्षारमम्बु यथा पीत्वा तृष्यस्यतितरां नरः | तथा विषयसम्भोगैः परं सन्तर्पमृच्छति ॥ ३४ ॥ अहो विषयिणां व्यापञ्चेन्द्रियवशात्मनाम् । विषयामिषगृध्नूनाम् अचिन्त्यं दुःखमापुषाम् ||३५ ॥ वने वनगजास्तुङ्गा यूथपाः प्रोन्मदिष्णत्रः । अवपातेषु सीदन्ति करिणीस्पर्शमोहिताः ॥ ३६ ॥ सरन् सरसि सम्फुलल्लकहा रस्वादुवारिणि । मत्स्यो वडिशमांसार्थी जीवनाशं प्रणश्यति ||३७||