SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ भोगनिन्दा aarमेष प्रतीकारो यत्स्त्री सम्भोगजं सुखम् | निर्व्याधिः स्वास्थ्यमापनः कुरुते किन्तु भेषजम् | ८ | परं स्वास्थ्यं सुखं नैतद् विषयेष्वनुरागिणाम् । ते हि पूर्व तदात्वे च पर्यन्ते च विदाहिनः || ९ || मनोनिर्वृतिमेवेह सुखं वाञ्छन्ति कोविदाः । तत्कुतो विषयान्धानां नित्यमायस्तचेतसाम् ||१०| विषयानुभवे सौख्यं यत्पराधीनमङ्गिनाम् । साबाधं सान्तरं मन्ध कारणं दुःखमेव तत् || ११|| आपातमात्ररसिका विषया विषदारुणाः । तदुद्भवं सुखं नृणां कण्डुकण्डूयनोपमम् ॥ १२ ॥ दवणे यथा सान्द्रचन्दनद्रव चर्चनम् । किञ्चिदाश्वासजननं तथा विषयजं सुखम् ||१३|| ६३ दुष्टवणे यथा क्षारशस्त्रपाताद्युपक्रमः । प्रतीकारो रुज जन्तोः तथा विषयसेवनम् ||१४|| प्रियाङ्गनाङ्गसंसर्गाद् यदीह सुखमङ्गिनाम् | ननु पक्षिमृगादीनां तिरश्चामस्तु तत्सुखम् || १५ ।। शुनीमिन्द्रमहे पूतिव्रणीभूतयोनिकाम् | अवशं सेवमानः श्वा सुखी चेत् स्त्रीजुषां सुखम् || १६।। निम्बमे यथोत्पन्नः कीटकस्तद्र सोपभुक् । मधुरं तद्रसं वेति तथा विषयिणोऽयमी || १७ |
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy