________________
- भोगनिन्दा
-- वसन्ततिलकम् - त्वां देवमिस्थमभिवन्ध कृतप्रणामो, नान्यत्फलं परिमितं परिमार्गमामि । वय्येव भक्तिमचलां जिन ! मे दिश त्वं, सा सर्वमभ्युदयक्तिफलं प्रसूते ।। ४० ।।
- भोगनिन्दा - संसारे स्वीसमासङ्गाद् अङ्गिना सुखसङ्गमः । तदभावे कुतस्तेषां सुखमित्यत्र चय॑ते ।। १ ॥ निन्द्वचितामासाः शमुशन्तीह देहिनाम् । तस्कुतस्त्यं सरागाणा द्वन्द्वोपहतचेतसाम् ।। २ ।। स्त्रीभोगो न सुखं चेतः संमोहाद् गात्रसादनात् । तृष्णानुबन्धात् सन्तापरूपत्वाच्च यथा ज्वरः ।।३।। मदनज्वरसन्तप्तः तत्प्रतीकारवाञ्छया | स्त्रीरुपं सेवते श्रान्तः यथा कट्वपि भेषजम् ।।४।। मनोज्ञविषयासेवा तृष्णाय न वितृप्तये । तृष्णार्चिषा च सन्तप्तः कथं नाम सुखी जनः ।।५।। रुजां यत्रोपघाताय तदोषधमौषधम् । यनोदन्याविनाशाय नाजसा तजलं जलम् ।।६।। न विहन्त्यापदं यच नार्थतस्तद्धनं धनम् । तथा तृष्णाच्छिदे यत्र न तद्विषयज सुखम् ।।७।।