________________
अर्हत्स्तुतिः नोपद्रवति दीमार्चिरप्यर्चिष्मान् समुत्थितः । स्वत्पदस्मृतिशीताम्बुधाराप्रशमितोदयः ॥३० ।। फणी कृतफणो रोषात् उद् गिरन् गरमुल्वणम् । स्वाहागदसंस्मृम्या हो भनति निर्मिषः ।। ३ ।। बने प्रचण्डलुण्टाक कोदण्डरव भीषणे । सार्थाः सार्थाधिपाः स्वैरं प्रयान्ति त्वत्पदानुगाः ।।३२।। अयि चण्डानिलाकाण्ड जम्भणाघर्णिताणसम् । तरन्त्यर्णवसुद्धेलं हेलया त्वक्रमाश्रिताः ।। ३३ ।। अप्यस्थानकृतोत्थान तीव्रणरुजो जनाः । सयो भवन्त्यनातङ्काः स्मृतत्वत्पदभेषजाः ।। ३४ ।। कर्मबन्धविनिमुक्तं त्वामनुस्मृत्य मानवः । दृढबन्धनबद्धोऽपि भवत्याशु विशृङ्खलः ॥३५ ।। इतिविध्नित विनोघं भक्तिनिघ्नेन चेतसा । पपासे जिनेन्द्र ! त्वां विघ्नवर्गोपशान्तये ।। ३६ ।। त्वमेको जगता ज्योतिः त्वमेको जगतां पतिः । त्वमेको जगतां बन्धुः त्वमेको जगतां गुरुः ।। ३७ ।। स्त्रमादिः सर्वविद्यानां त्वमादिः सर्वयोगिनाम् | त्वमादिधर्मतीर्थस्य त्वमादिगुरुरङ्गिनाम् ।। ३८ ।। त्वं सार्वः सर्वविद्यशः सर्वलोकानलोकथाः। स्तुतिवादस्तवतावान् अलमास्तां सविस्तरः ।। ३९ ।।