SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ अर्हत्स्तुतिः कृतार्चनस्ततः स्तोतुं प्रारभेऽसौ महामतिः । अभिः स्तुतिभिः साक्षात्कृत्य स्तुत्यं जिनेश्वरम् ||१|| नमो जिनेशिने तुभ्यं मनभ्यस्तदुराधये । त्वामद्याराधयामीश ! कर्मशत्रु विभित्सया || २ || अनन्तावद्गुणाः स्तोतुं अशक्या गणपैरपि । भक्त्या तु प्रस्तुवे स्तोत्रं भक्तिः श्रेयोऽनुबन्धिनी ||३|| त्वद्भक्तः सुखमभ्येति लक्ष्मीस्वद्भक्तमश्नुते । त्वद्भक्ति कये पुंसां मुक्तये या स्थवीयसी ॥ ४ ॥ अतो भजन्ति भव्यास्त्वां मनोवाक्कायशुद्धिभिः । फलार्थिभिर्भवान् सेव्यो व्यक्तं कल्पतरूयते ।। ५ ।। स्वया प्रवर्षता धर्म वृष्टिं दुष्कर्मधर्मतः । प्रोदन्यद्भवारिस्पृहां नवघनायितम् ।। ६ । त्वया प्रदर्शितं मागं आसेवन्ते हितैषिणः । Haati मार्गमित्र कार्यार्थिनो जनाः ।। ७ ।। संसारोच्छेदने बीजं स्वया तखं निदर्शितम् । आत्रिकामुत्रिकार्थानां यतः सिद्धिरिहाङ्गिनाम् ॥ ८ ॥ लक्ष्मी सर्वस्मुज्झित्वा साम्राज्यं प्राज्यवैभवम् । त्वया चित्रमुद्वासौ मुक्तिश्रीः स्पृहयालुना । ९ ।।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy