________________
५२
दर्शनपाठा
शापिताशेषवेदार्थभपितारातिशासन !
सज्ज्ञान ! ज्ञाननेत्राणामज्ञानं हर मे हर ! ।। ३३ ॥ जयाखिलजगज्ज्योति स्वरूपानन्दमन्दिर | जय त्रैलोक्यराज्याधिपतित्वमहिमास्पद ! ||३४|| जय विश्वमयत्वादिगुणनामोपलक्षित ! जय स्वबोधमुकुरप्रतिविम्पितभृत्रय ! ॥ ३५ ॥ जय सप्तास्यधर्मोपदर्शिभामण्डलाञ्चित ! जय सर्वजगद्दर्शि दिव्यवाङ्मयदर्पण ! || ३६ ||
जय लोकत्रयाराध्य ! जय लोकैकमङ्गल ! जय लोकशरण्याईन् ! जय लोकोचम ! प्रभो ! ॥३७॥
जयानन्तगुणाधार ! जय वाचामगोचर !
जय भक्तजनस्तुत्य ! जय भक्तवरप्रद् ॥ ३८ ॥ यस्त्वां पश्यति विश्वलोकतिलक 1 श्रीमजिनेन्द्रप्रभो ! भक्त्या भव्यवरः स एव सुकृती प्राज्ञः कृतार्थः कृती । विद्याविक्रमकीर्तिपुण्यनिलयो भोगोपभोगानसौ, gar मुक्तिमुपैति सप्तपरमस्थानक्रमेण ध्रुवम् ||३९|| देवाद्वितीय सद्गुणरत्नराशे !
देवासुराधिपतिपूज्य ! शुभैकलभ्यम् । त्वद्दिव्यपादकमलं जिन ! पश्यतो में, त्वय्येव भक्तिरचला भवतु प्रभृता ।। ४० ।।