________________
दर्शनपाठः
दृष्ट त्वयि जिन ! प्राप्तं यन्त्रधारागृहं मया । संसारग्रीष्मघाशुतप्तेनातितरां चिरम् ॥ १३ ॥ दृष्टं त्वयि महोपाय ! दृष्टः कारुणिको भिषक् । चिरं भवमहायाधिवाधितेन मयाऽधुना ॥१४॥ दृष्ट त्वयि जगत्पूज्य ! प्राप्त राज्यमिदं मया ।
आजवजषदारिद्रयदहधमानेन सन्ततम् ॥१५॥ दृष्टे त्वयि महाविद्य ! सद्वद्यं सद्विपाककम् । शुभायुर्नामगोत्राणि सञ्चितान्येव साम्प्रतम् ।। १६ ॥ दृष्ट त्वयि जगज्येष्ठ ! शिष्टाभीष्टफलप्रद ! दृष्टार्थसिद्धिरेवाद्य दृष्टा साक्षादनेकधा ॥ १७ ॥ दृष्टं त्वयि महादानं दत्तं कल्पमहाद्रुम ! स्वर्भोगकर्मभूभाविविविधाभ्युदयश्रियः ॥१८ ।। दृष्टे त्वयि महाब्रह्मन् ! ननुभावपराक्रमः । न हि मे दुर्लभः सावं ! सार्वभौमादिसम्भवः ।। १९ ।। दृष्ट त्वयि त्रिलोकीश ! भुवनप्रयजामराः । शोच्या एव मम श्रान्तेः का कथा खचराधिपाः ||२०|| दृष्ट त्वयि च्युतानन्त ! नित्यानन्द पदप्रद ! इन्द्राइमिन्द्रसम्पत्ति बहुमन्ये न नश्वरीम् ॥ २१ ।। दृष्टे त्वयि गुणाम्भोधे ! गुणाना महतां गणः । शीलानां निवयः सद्यो मयाऽऽसादि दुरासदः ।।२२।।