________________
४८
दर्शनपाठ:
निर्विष्णोऽहं नितरामहन् ! बहुदुःखया भवस्थित्या । अपुनर्भवाय भवहर ! कुरु करुणामत्र मयि दीने ।। २ ।। उद्धर मां पतितमतो विषमाद् भवकूपतः कृपा कृत्वा । अहन्नलमुद्धरणे स्वमसीति पुनः पुनः वच्मि ॥ ३ ।। स्वं कारुणिक स्वामिन् ! त्वमेव शरणं जिनेश ! तेनाई। मोहरिपुदलितमानः फत्करणं तत्र पुरः कुवं ।। ४ ।। ग्रामपतेरपि करणा परेण केलाप्यपढ़ते पंसि | जगतां प्रभो ! न किं तब जिन ! मयि खलकर्मभिः प्रहते ।। अपहर मम जन्म दयां कृत्वाचेत्येकवचसि वक्तव्ये । तेनातिदग्ध इति मे, देव ! बभूव प्रलापित्वम् ।। ६ ।। तब जिनवर ! चरणाब्जयुगं, करुणामृतसङ्गशीतलं यावत् ! संसारतापतप्तः, करोमि हृदि तावदेव सुखी ।। ७ ।। जगदेकशरण ! भगवन् ! नौमि श्रीपद्मनन्दितगुणौष । किंबहुना ? कुरु करुणामत्र जने शरणमापन्ने ॥ ८॥
दर्शनपाठः दृष्ट स्वयि जिनाधीश ! भवाम्भोधिमतारिषम् । आप्तमभ्युदयं सर्व निःश्रेयसमशिश्रयम् ॥१॥ दृष्टे त्वयि जगद्वन्ध ! दृष्टो दुःखाम्बुधेस्तटः ।। दृष्टश्चाभ्युदयोपायो दृष्टः पन्थाश्च निर्वृतेः ।।२।।