________________
सुप्रभाताष्टकम् । निःशेषावरणद्वयस्थितिनिशाप्रान्तेऽन्तरायक्षया योते मोहकते गते च सहसा निद्राभरे दूरतः । सम्यक्षानगलियुग्ममभितो विस्फारितं यत्र तत, लब्धं यैरिह सुप्रभातमचलं तेभ्यो जिनेभ्यो नमः ॥१॥ यत्सच्चक्र सुखप्रदं यदमलं ज्ञानप्रभामासुरं, लोकालोकपदप्रकाशनविधिप्रौढ़ प्रकृष्ट सकृत् । उद्भूते सति यत्र जीवितमिव प्राप्तं परं प्राणिभिः, त्रैलोक्याधियतेर्जिनस्य सततं तत्सुप्रभातं स्तुवे ।। २ ।। एकान्तोद्धतबादिकौशिकशनष्ट भयादाकुलै, जातं यत्र विशुद्धखेचरनुतिव्याहारकोलाहलम् । यत्सद्धर्म विधिप्रवर्धनकर तत्सुप्रभातं पर, मन्येऽहत्परमेष्ठिनो निरुपम संसारसन्तापहृत् ।। ३ ।। सानन्द सुरसुन्दरी भिरभितः शऊर्यदा गीयते, प्रातः प्रातरधीश्वरं यदतुल चैतालिकः पठ्यते । यच्चाप्रावि नभश्चरैश्च फणिभिः कन्याजनाद् गायतः, तद्वन्दे जिनसुप्रभातमखिल त्रैलोक्यहर्षप्रदम् ॥४ ।। उद्योते सति यत्र नश्यति तरां लोकेऽघचौरोऽचिरं, दोपेशोऽन्तरतीव यत्र मलिनो मन्दप्रभो जायते ।