________________
૨૬
जिनसहस्रनामस्तवनम्
भूतार्थशूरो भूतार्थ, दूरः परमनिर्गुणः । व्यवहारसुषुप्तोऽति, जागरूकोऽतिसुस्थितः ॥ १३२ ॥ उदितोदितमाहात्म्यो, निरुपाधिरकृत्रिमः । अमेय महिमात्यन्त, शुद्धः सिदिधस्वयंवरः ॥ १३३॥ सिद्धानुजः सिद्धपुरी, पान्थः सिद्धगरणातिथिः । सिद्धसङ्गोन्मुख : सिद्धा, लिङ्ग्यः सिद्घोपगृहकः ॥ १३४ ॥ पुष्टो ष्टादशसहस्र, शीलाश्वः पुण्यसम्बलः । वृत्तायुग्यः परम, शुक्ललेश्योपचारकृत् ॥ १३५ ॥ क्षेपिष्ठोऽन्त्यक्षण सखा, पञ्चलध्यक्षर स्थितिः । द्वासप्तति प्रकृत्यासी, त्रयोदशक लिप्रणुत् ॥ १३६॥ प्रवेदोऽयाजकोऽयज्यो, वाज्योऽनग्निपरिग्रहः । अग्निहोत्री परम, निःस्पृहोऽत्यन्तनिर्दयः ॥१३७॥ अशिष्योऽशासकोऽदीक्ष्यो, वीक्षकोऽदीक्षितोऽक्षयः । अगम्योगमको रम्यो, रमको ज्ञाननिर्भरः ॥ १३८ ॥
॥ इत्यन्तकृच्छतम् ।। १० ।।
महायोगीश्वरो द्रव्य, सिधोऽदेहोऽपुनर्भवः । ज्ञानेकचिज्जीवधन, सिधो लोकाग्रगामुकः ॥१३६॥
।। इत्यष्टकम् ॥ १ ॥
इदमष्टोत्तरं नाम्नां सहस्रं भक्तितोऽहंताम् । योऽनन्तानामधीतेऽसौ मुक्त्यन्तां भुक्तिमश्नुते ॥ १४० ॥