________________
२८
जिनसहस्रनामस्तवन
सुश्र तिः सु श्रुतो याज्य, श्रुतिः सु श्रुन्महाश्रुतिः । धर्मश्रुतिः श्रु तिपतिः, श्रुत्युद्धर्ता ध्रुवच तिः ॥५६॥ निर्वाणमार्गभिमार्ग, देशक; सर्वमार्गदिक् । सारस्वतपथस्तीर्थ, परमोत्तमतीर्थकृत् ॥५७।। देष्टा वाग्मीश्वरो धर्म-शासको धर्मदेशकः । वागीश्वरस्त्रयोनाथस , त्रिभङ्गीशो गिराम्पतिः ॥५८॥ सिद्धाज्ञः सिद्धबागाज्ञा, सिद्धः सिद्धकशासन। । जगत्प्रसिद्धसिद्धान्तः, सिद्धमन्त्रः स सिद्धवाक् ॥५६॥ शुचिया निरुक्तीक्तिस्, तन्त्रकृन्न्यायशास्त्रकृत् । महिष्ठवाङ्महानादः, कवीन्द्रो दुन्दुभिस्वनः ॥६०॥
॥ इति तोकृच्छतम् ।। ४ ।। नाथः पतिः परिवृतः, स्वामी भर्ता विभुः प्रभुः । ईश्वरोऽधीश्वरोऽधीशो, धीशानोऽधी शितेशिता ॥६॥ ईशोऽधिपतिरोशान, इन इन्द्रोऽधिपोधिभुः । महेश्वरो महेशानो, महेशः परमेशिता ॥६॥ अधिदेवो महादेवो, देनस्त्रिभुवनेश्वरः। विश्वेशो विश्वाभूतेशो, विश्वेड विश्वेश्वरोऽधिराट् ॥६३॥ लोकेश्वरो लोकपति, र्लोकनाथो जगत्पति । त्रैलोक्यनाथो लोकेशो; जगन्नाथो जगत्प्रभुः ॥६४॥