SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ जिन सहस्रनाम स्तवनम् सर्वज्ञ सर्ववित् सर्ग-दर्शी सर्वावलोकन: । अनन्तविक्रमोऽनन्त श्रीयोऽनन्त सुखात्मकः ॥ १८ ॥ श्रनन्तसौख्यो विश्वज्ञो विश्वश्वाऽखिलार्थदृक् । न्यक्षदृग्विश्वतश्चक्षुविश्वचक्षुरशेषवित् ॥ १६॥ श्रानन्दः परमानन्दः सदानन्दः सदोदयः । नित्यानन्दो महानन्दः, परानन्दः परोदय ॥२०॥ परमोजः परं तेजः परं धाम परं महः । + प्रत्यग्ज्योतिः परं ज्योतिः परं ब्रह्म परं रहः ॥२१॥ प्रत्यगात्मा प्रबुद्धात्मा, महात्मात्ममहोदयः । परमात्मा प्रशान्तात्मा, परात्मात्म निकेतनः ॥ २२ ॥ परमेष्ठी महिष्ठात्मा, श्रेष्ठात्मा स्वात्म निष्ठितः । ब्रह्मनिष्ठो महानिष्ठो निरूढात्मा दृढात्मदृक् ॥२३॥ एकविद्यो महाविद्यो महाब्रह्मपवेश्वरः । पञ्चब्रह्ममयः सार्थः, सर्व विद्येश्वरः सुभूः ॥२४॥ प्रनन्तधीरनन्तात्माऽनन्तशक्तिरनन्तदृक् । २४ - अनन्तानन्तधीशक्ति-रनन्त चिदनन्तमुत् ॥ २५॥ सदाप्रकाशः सर्वार्थ साक्षात्कारी समग्रधीः । कर्मसाक्षी जगच्चक्षुरलक्ष्यात्माऽचलस्थितिः ॥ २६ ॥ निराबाधोऽप्रतर्यात्मा, धर्मचक्री विदांवरः । भूतात्मा सहजज्योतिविश्वज्योतिरतीन्द्रियः ॥२७॥
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy