________________
जिनसहस्रनामस्तवनम्
२५ केवली केवलालोको, लोकालोकविलोकनः । विविक्तः केवलोऽव्यक्तः, शरण्योऽचिन्त्यवभवः ॥२८॥ विश्वभूतिय पाल", शिवस्मा लितोमुखः । विश्वव्यापी स्वयंज्योति,रचिन्त्यात्माऽमितप्रभः ॥२६॥ महोदायों महाबोधि, महालाभो महोदयः। महोपभोगः सुगति, महाभोगो महाबलः ॥३०॥
॥ इति सर्वज्ञशतम् ॥ २॥ यज्ञार्हो भगवानहन्-महार्हो मघवाचितः । भूतार्थयज्ञपुरुषो, भूतार्थक्रतुपुरुषः ॥३१॥ पूज्यो भट्टारकस्तत्र, भवानबभवान् महान् । महामहार्हस्तत्रायु, स्ततो दीर्घायुरर्यवाक् ॥३२॥ आराध्यः परमाराध्यः पञ्चकल्याणपूजितः । दृग्विशुद्धिगरणोदनो, वसुधाराचितास्पदः ॥३३॥ सुस्वप्नदर्शी दिव्यौजाः, शचीसेवितमातृकः । स्याद्ररत्नगर्भः श्रीपूत-गर्भो गर्भोत्सवोच्छितः ॥३४॥ दिव्योपचारोपचितः, पद्मभूनिष्फलः स्वजः । सर्वोयजन्मा पुण्याङ्गो, भास्वानुभूतदेवतः ॥३५॥ विश्वविज्ञातसम्भूति,विश्वदेवागमाद्भुतः । शचीसृष्टप्रतिच्छन्दः, सहस्राक्षगुत्सवः ॥३६॥