________________
पूज्यपादविरचिता
जीवाः
नादिविधिर्व्याख्यातः । तत्स्वभावानुचिन्तन खेोकानुप्रेक्षा । एवं ह्यस्याध्यवस्यतस्तस्वज्ञान विशुद्धिभवति ॥ १० ॥ बोधिदुर्लभ भावना - एकस्मिन्निगोतशरीरे सिद्धानामनन्तगुणाः एवं सर्वलोको निरन्तरं निचितः स्थावरतस्तत्र त्रसता वालुकासमुद्रं पतिता वचसिकताकणिकेच दुर्लभा । तत्र च विकलेन्द्रियाणां भृषित्वात् पञ्चेन्द्रियता गुणेषु - कृतज्ञता इव कुच्छलम्या । तत्र च तिर्यक्षु पशुमृगपक्षिसरीसृपादिषु बहुषु सत्सु मनुष्यभावश्चतुष्पथे रत्नराशिरिव दुरासदः । तत्प्रच्यवे च पुनस्तदुपपतिर्द ग्वतरुपुद् गलतद् भावोपपशिवदुर्लभा । तल्लाभे च देशकुलेन्द्रिय सम्पन्नीरोगत्वान्युतरोचरतोऽतिदुर्लभानि । सर्वेष्वपि तेषु लब्धेषु सद्धर्मप्रतिलम्भो यदि न स्यात् व्यर्थ जन्म, वदनभित्र दृष्टिविकलं । तमेवं कुच्छलम्यं धर्ममवाप्य विषयसुखे रञ्जनं भस्मार्थं चन्दनदहनमिच विफलम् ॥ विरक्तविषयसुखस्य तु तपोभावनाधर्मप्रभावना सुखमरणादिलक्षणः समाधिर्दुरवापः ।। तस्मिन सति बोधिलाभः फलवान् भवतीति चिन्तनं बोधिदुर्लभानुप्रेक्षा । एवं ह्यस्य भावयतो बोधिं प्राप्य प्रमादो न कदाचिदपि भवति ॥११॥
I
धर्मभावना - अयं जिनोपदिष्टो धर्मोऽहिंसालक्षणः सत्याfagat farmमूलः क्षमावलो ब्रह्मचर्यगुप्त, उपशमप्रधानरे, नियतिलक्षणो, निष्परिग्रहतालम्बनः । तस्यालाभादनादिसंसारे जीवाः परिभ्रमन्ति दुष्कर्म विपाकजं दुःखमनुभवन्तः । अस्य
२८५
।