________________
द्वादशानुप्रक्षाः
२७६ नूनं स भस्मकृतधीरिह रत्नराशिम् । उद्दीपवेद-तनुमोहमलीमसात्मा ||४|| बाह्यप्रपञ्चविमुखस्य समोम्मुखस्य । भूतानुकम्पनरुचा प्रियसत्त्ववाचः ।। प्रत्यक प्रयत्हदयस्य जितेन्द्रियस्य । भन्यस्य बोधिरियमस्तु पदाय तस्मै ॥४॥
धर्मानुप्रेक्षा १२ . श्रद्धाऽभिसन्धिरवधूतयहिःसमीहः । तत्वावसायसलिलाहितमूलबन्धः ।। आत्मायमात्मनि तनोति फलद्वयार्थी । । धम तमाहुरमृतोपमसस्यमाप्ताः ।।४६।। मैत्रीदयादमशभागमनिर्वृताना । बाह्येन्द्रियप्रसरवर्जितमानसानाम् ।। विद्याप्रमाणहतमोहमहाग्रहाणां । धर्मः परापरफलः सुलभो नराणाम् ।।४।। इच्छाः फलैः कलयति प्ररुणद्धि बाधाः । सृष्टे रसाम्यत्रिभुरभ्युदयादिभिर्यः ।। ज्योतीषिद्तयति चात्मसमीहितेषु । धर्मः स शर्मनिधिरस्तु सतां हिताय ||४८|| देहोपहारकुतपैः स्वपरोपतापैः । कृत्वाऽध्वरेश्वरमिषं विदलन् मनीषाः ।।