________________
द्वादशानुप्रेक्षा:
सोऽयं त्वयि श्रवणगोचरतां प्रपाते । प्रेतावनीषु वनवासवासगोऽभूत् ||२४|| अन्तर्वहिर्यदि भवेद् वपुषः शरीरम् । देवात् तदानुभवनं ननु दूरमास्ताम् ॥ कौतूहलादपि यदीक्षितुमुत्सहेत । कुर्यादाभिरतिमत्र भवान् शरीरे ||२५|| तस्मान्निसर्गमलिनादपि लब्धतत्वाः । कीनाशके लिमनवातधियोऽचिराय ॥ कायादतः किमपि तत्फलमर्जयन्तु । यस्मादनन्त सुखसस्य विभूतिरेषा ॥ २६ ॥
२७५
आसवानुप्रेक्षा ७ अन्तः कषायकलुषोऽशुभयोगसङ्गात् । कर्माण्युपार्जयसि बन्धनिबन्धनानि || रज्जः करेणुवशगा करटी यथैताः । त्वं जीव ! मुञ्च तदिमानि दुरीहितानि ||२७|| संकल्पकल्पतरुसंश्रयणास्वदीयं |
चेतो निमज्जति मनोरथसागरेऽस्मिन् ॥ तत्रार्थतस्तव चकास्ति न किञ्चनाऽपि । पक्षे परं भवसि कल्मषसंश्रयस्य ||२८|| सेयं विभृतिषु मनीषितसंश्रयाणाम् । चतुर्भवेत्तव निजार्चिषु मोघवाञ्छम् ।।