________________
૨૭૪
द्वादशानुप्रेक्षाः त्वं धर्मशर्मवसतिः परितोऽवसायः । कायः पुनर्जडतया गतधीनिकायः ।।१९।। आसीदति स्वयि सति प्रतनोति कायः । कान्ते तिरोभवति भूपवनादिरूपैः ।। भूतात्मकस्य मृतवन सुखादिमावः । तस्मात् कृती करणतः पृथगेय जीवः ।।२०।। सानन्दमव्ययमनादिमनन्तशक्तिम् । उद्दयोतिनं निरुपलेपगुणं प्रकृत्या ।। कुल्वा जडाश्रयमिमं पुरुष समृद्धाः । सन्तापयन्ति रसवदुरिताग्नयोऽमी ॥२१।। कर्मासवानुभवनात् पुरुषः परोऽपि । प्राप्नोति पातमशुभासु भवानीषु ।। तस्माचयोः परमभेदविदो विदग्धाः । श्रयस्तदा दधतु यत्र न जन्नयोगः ।।२२।।
अशुच्यनुप्रेक्षा ६ आधीयते यदिह वस्तु गुणाय कान्तम् । काये तदेवमुहुरेत्यपवित्रभावम् ।। छायाप्रतारितमतिर्मलरन्ध्रवन्धम् । किं जीव ! लालयसि भरमेतदङ्गम् ।।२३।। योषिभिराहतकरं कृतमण्डनश्रीः । यः कामचामररुचिस्तष केशपाशः ।।