________________
२७२
द्वादशानुप्रेक्षा संसीदतस्तय न जातु समस्ति शास्ता । स्वतः परः परमवाप्तसमग्रबोधैः ।। तस्या स्थित्ते त्वयि यतो दुरितोपतापसेनेयमेव सुविधे ! विधुराश्रया स्यात् ।।१०।।
संसारानुप्रेक्षा ३ कार्पितं क्रमगतिः पुरुषः शरीरम् । एकं त्यजत्यपरमाभजते भवाब्धी ।। शैलषयोषिदिव संसृतिरेवमेषा । नाना विडम्बयति चित्रकरः प्रपञ्चैः ॥११।। दैवानेष्यधिगतेषु पटुर्न कायः। काये पटौं न पुनरायुरवातवित्तम् ।। इत्थं परस्परहतात्ममिराप्तधर्मैः । लोक सुदुःखयति जन्मकरः प्रबन्धः ।।१२।। आस्तां भवान्तरविधौ सुविपर्ययोऽयम् । अत्रैव जन्मनि नृणामधरोच्चभावः || अल्पः पृथुः पथरपि क्षणतोऽन्य एव । स्वामी भवत्यनुचरः स च तत्पदाहः ॥१३।। वैचित्र्य मित्थमनुभूय भवाम्बुराशेः । आतङ्कवाडयविडम्वितजन्तुषारेः ।। को नाम जन्म विषपादपपुष्पकल्पैः । स्वं मोहयेन् मृगदृशां कृतधीः कटाक्षः ॥१४॥