SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ श्रीवादीभसिंहसुरिविरचिता द्वादशानुप्रेक्षा १ अनित्यानप्रेक्षा जाताः पुष्टाः पुनरः, इति प्रापशु प्रथा । न स्थिता इति तत्कुर्याः, स्थायिन्यात्मन् ! पदे मतिम्॥१।। स्थायीति क्षणमात्रं वा, ज्ञायते नहि जीवितम् ।। कोटेरप्यधिक हन्त, जन्तूनां हि मनीषितम् ।।२।। अवश्यं यदि नश्यन्ति, स्थित्वाऽपि विषयाश्चिरम् | स्वयं स्याज्यास्तथाहि स्यान् , मुक्तिः संसृतिरन्यथा ।।३।। अनश्वरसुखावाप्ता, सत्यां नश्वरकायतः ।। किं यथैव नयस्यात्मन् ! क्षणं वा सफलं नय ॥४॥ २ अशरणानुप्रेक्षा पयोधी नष्ट नौकस्य, पतत्रेरिव जीव ! ते । सत्यपाये शरण्यं न, तत्स्वास्थ्ये हि सहस्रधा ।।५।। आयुधीयरतिस्निग्धैर्यन्थुमिश्चाभिसंवृतः । जन्तुः संरक्ष्यमाणोऽपि, पश्यतामेव नश्यति ।।६।। मन्त्रयन्त्रादयोप्यात्मन् ! स्वतन्त्रं शरणं न ते । किन्तु सत्येव पुण्ये हि, नो चेत्के नाम तैः स्थिताः ।।७।। ३ संसारानप्रेक्षा नटवन्न कवेषेण, भ्रमस्यात्मन् ! स्त्रकर्मतः । तिरश्चि निरये पापाद, दिवि पुण्याद् दयामरे ||८||
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy