________________
द्वादशानुप्रेक्षा
२६५
पञ्चानन इवामोक्षा-दसि पर आहितः । भणेऽपि दुःसहे देहे, देहिन् ! इन्त कथं बसेः ॥९।। तन्नास्ति यन्न थे मुक्त, पुद्गलेषु महुस्त्वया । तल्लेशस्तब कि तृप्त्यै, बिन्दुपीताम्बुधेरिव ॥१०॥ भुक्तोज्झितं तदलिष्ट', भोक्तुमेवोत्सुकायसे । अभुक्तं मुक्तिसौख्यं स्व-मतुलं हन्त नेच्छसि ॥११॥ संसतो कर्म रागाधे-स्ततः कायान्तरं ततः । इन्द्रियानिन्द्रियद्वारा, रागाद्याश्चक्रकं पुनः ।।१२।। सत्यनादौ प्रबन्धेऽस्मिन् , कार्यकारणरूपके । येन दुःखायते नित्यं-मध वात्मन् ! विमुञ्च तत् ।।१३।।
४ एकत्वानु प्रेक्षा त्यक्तोपात्तशरीरादिः, स्वकर्मानुगुणं भ्रमन् । स्वमात्मन् ! एक एवाऽसि, जनने मरणेऽपि च ॥१४॥ बन्धवो हि श्मशानन्ता, गृह एवाजितं धनम् । भस्मने गावमेकं त्वां, धर्म एवं न मुञ्चति ॥१५॥ पुत्रमित्रकलबाघ-मन्यदप्यन्तरालजम् । नानुयायीति नाश्चर्य, नन्वङ्ग सहज तथा ॥१६॥ स्वमेव कर्मणां कर्ता, भोक्ता च फलसन्ततः। भोक्ता च तात ! किं मुक्ती, स्वाधीनायां न चेष्टते ।।१७।।