SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ज्ञानाङ कुशस्तोत्रम् २५३ न जापेन न होमेन, नामसूत्रस्य धारणात् । प्राप्यते तत्परं तत्वं, प्राप्यं त्वात्मविचिन्तनात् ॥३०॥ प्रभातं योगिनो निन्यं, ज्ञानादित्यो दि स्थितः । इतरेषा नराणां च, न प्रभातं कदाचन ॥३१॥ देहाज्जीव पृथक कुवा, चिन्तयेतद्विचक्षणः | देहस्यैव च देहित्वे, ध्यानं तत्र विनिष्फलम् ॥३२॥ आत्मकर्म परित्यज्य, परष्टि विशोधयेत् । यतीनां प्रश्न निष्ठाना, किं तया परचिन्तया ॥३३।। चिन्तया नश्यते ज्ञान, चिन्तया नश्यते बलम् । चिन्तया नश्यते बुद्धि, व्याधिर्भवति चिन्तया ||३४।। अन्यच्छरीरमन्योऽह-मन्ये सम्बन्धिवान्धवाः | एवं स्वं च परं झावा, स्वात्मानं भावयेत् सुधीः ।।३।। अत्यन्तमलिनो देहो, देही चात्यन्तनिर्मलः । उभयोरन्तरं दृष्ट्वा, कस्य शौचं विधीयते ॥३६।। एकः करोति कर्माणि, मुक्ते चकोऽपि नत्फलम् । एकोऽपि जायते नून-मेको याति भवान्तरम् ।।३७।। ऊर्ध्वश्वासविनिमुक्त-मघाश्वासविवर्जितम् । मध्यशून्यं पदं कृत्वा, न किञ्चिदपि चिन्तयेत् ॥३८॥ यावत्प्रवर्तते चिन्ता, तावत्पारं न गच्छति । विद्यते हि परं तस्वं, मनोऽपोहितकाययत् ॥३९॥
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy