SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ ज्ञानाङ कुशस्तोत्रम् ' सम्यग्दर्शन सज्ज्ञान - चारित्र त्रितयात्मकम् । तेनात्मदर्शनं नित्यं रत्नत्रितयभावना ||२०|| मतिश्रुताबधिश्वेति, मनःपर्यय केवलम् । ज्ञानात्मा मुक्तिरित्युक्तं पञ्चादिपरमेष्ठिनाम् ||२१|| देह चैत्यालयं प्राहुः देही चैत्यं तथोच्यते । तद्भक्तिश्चैत्यभक्तिश्च प्रशस्या भववर्जिता || २२ || यथा च काञ्चनं शुद्धं, दग्ध्वा पिण्डस्थ बन्धनम् । जीवोऽपि हि सधाभृतं, धम्मज्ञानेन सुरपति ॥२३॥ प्रपञ्चरहितं शास्त्रं प्रपञ्चरहितो गुरुः । प्रपञ्चरहितो मोक्षो, दृश्यते जिनशासने || २४॥ २५२ नास्ति ध्यानसमो बन्धुः नास्ति ध्यानसमो गुरुः । नास्ति ध्यानसमं मित्रं नास्ति ध्यानसमं तपः || २५ || परात्मा द्विविधः प्रोक्तः, सकलो निष्कलस्तथा । कोस्वरूपो हि, सिद्धो निष्कल उच्यते || २६ ॥ 1 श्रूयते ध्यानयोगेन संप्राप्तं पदमव्ययम् । तस्मात् सर्वप्रयत्नेन कुर्याद् ध्यानं बुधोत्तमः ||२७|| पक्षपात विनिर्मुक्तं, लाभालाभविवर्जितम् । मायामनः परित्यक्त, तस्वं भवति योगिनः ||२८|| गर्भिणी च यथा नारी, पश्यत्यन्तःस्थसस्वकम् 1 एवं योगी स्वदेहस्थं स्वं पश्येद् रेचकादिभिः ||२६|| 1
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy