SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ ज्ञानाङ कुशस्तोत्रम् पदार्था अन्यथा लोके, शास्त्रं स्यादिदमन्यथा । अन्यथा मोक्षमार्ग, लोकः क्लिश्यति चान्यथा ||१०|| वर्णातीतं कलातीतं गन्धातीतं विनिर्दिशेत् । पूर्वं द्वन्द्वविनिर्मुक्त' ध्यायेत्सदा शिवम् ||११|| I J * राजन वा यदि वा गुप्त चापि योजनम् । कुर्वनाप्नोति तद्ध्यानं येनात्मा लभते शिवम् ||१२ ।। यो नरः शुद्धात्मानं ध्यायेत् कृत्वा मनः स्थिरम् । स एव लभते सौख्यं निर्वाणं शाश्वतं पदम् ||१३|| पदस्थं मन्त्रवाक्यस्थ, पिण्डस्थं स्वात्मचिन्तनम् । रूपस्थं सर्वचिद्रूपं, रूपातीतं निरञ्जनम् ||१४|| कषायं नोकषायं च कर्म नोकर्म ह्येव च । मनोऽतीन्द्रिय सर्वस्व त्यक्त्वा योगी समाचरेत् ।। १५ ।। आत्मा सत्यं परिशाय, सर्वकर्म परित्यजेत् । आत्मानन्तत्वबद्धावं, ज्ञानकर्म समाचरेत् ||१६|| तस्मात् कर्म परित्यज्य, स्वात्मतत्त्वं समाचरेत् । आचरितात्मतत्त्वश्च स्वयमेव परो भवेत् ||१७|| 1 २५१ पापकर्म परित्यज्य, पुण्यकर्म समाचरेत् । भावयेदशुभं कर्म त्यक्त्वा योगी समाचरेत् || १८ || 1 अनन्तज्ञानमेवाह, मनोवाक्कायवर्जितम् । 1 अत्ययविकलं शुद्धं तत्पदं शुद्धसंपदाम् ||१९|| :
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy