SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ श्रीयोगीन्द्रदेवविरचितम् ज्ञानाङ्कुशस्तोत्रम् शुद्धास्मानं पर ज्ञात्वा, ज्ञानरूपं निरञ्जनम् । वक्ष्ये संक्षेपतो योग, संसारच्छेदकारणम् ।।१॥ फायप्रमाणमात्मनं, व्योमरूपं निरञ्जनम् । चैतन्यं भावयेत्रित्यं, ज्ञान प्राप्नोति निश्चयम् ।।२।। शुभाशुभात्मक कम, देहिनां भवधारिणाम् । भावे शुभाशुभे नष्ट , देहो नश्यति देहिनाम् ।।३।। भावक्षये समुत्पन्ने, कर्म नश्यति निश्चयात् । तस्माद्भवालयं कृत्वा, न किञ्चिदपि चिन्तये ।।४।। ध्यानं स्थिरमनश्चैव, फलं स्यात् कर्म निर्जरा । एवंविधविचारेण, योगं निश्चयमाचरेत् ।।५।। सङ्कल्प एव जन्तूनां, कारणं बन्धमोक्षयोः । वीतरागोऽपवगम्य सरागो बन्धकारणम् ।।६।। अभावभावनं चैव, भावं कृत्वा निराश्रयम् । निश्चलं हि मनः कृत्वा, न किञ्चिदपि चिन्तयेत् |७| आत्मा हि ज्ञानमित्युक्तं, ज्ञानात्मनो विकल्पकम् । ज्ञानेन ज्ञानमालम्ब्य, योगिन् ! कर्मक्षयं कुरु ।।दा गृहस्थो यदि वा लिङ्गी, ब्रह्मचारी विशेषतः । ध्यानं करोति शुद्धात्मा, मुच्यते नात्र संशयः ।।६।।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy