SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ अपरा प्रश्नोत्तररत्नमालिका २४९ किं हिंसाया मूलं कोपः काऽऽत्माऽन्यवञ्चिका माया । कोऽत्र गुरुष्वपि पूजाऽतिक्रमहेतुः खलो मानः ।।५।। किमनर्थस्य निदानं लोभः कि मण्डनं च शुचि शीलम् । को महिमा विद्वत्ता विवेकिता का व्रताचरणम् ।।६।। मनसाऽपि किं न चिन्त्यं परदाराः परधनं परापकृतिः । कीहरबचो न वाच्यं परूष पीडाकर कटकम् ||७|| किं हातव्यं सततं पैशून्यं व्यसनिता च मात्सर्यम् । किमकरणीयं यत्पर-लोकविरुद्ध मनोऽनिष्टम् ॥८॥ शम्पेव चञ्चला का सम्पत काव्यमिव किमनवद्यम् । जीवितमधर्मरहितं कलङ्कसुस यशोयुक्तम् ।।९।। कि दिनकृत्यं जिनपतिपूजासामायिकगुरुपास्तिः । विविध शुचि पात्रदानं शास्त्राध्ययनं च सानन्दम् ॥१०॥ इत्यपरा प्रश्नोत्तररत्नमालिका श्रमणप्रशंसा न च राजभयं न च चौरभयं इहलोकसुखं परलोकहितम् । वरकीतिकरं नरदेवनुतं श्रमणत्वमिदं रमणीयतरम् ॥१॥ द्रव्यश्रमणस्य लक्षणम् मदमदनकषायारातयो नोपशान्ताः । न व विषयविमुक्ति जन्मदुःखामभीतिः ।। न तनुसुखविरागो विद्यते यस्य जन्तोः । भवति जगति दीक्षा तस्य भुक्त्यै न मुक्त्यै ।।१।।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy