________________
२४४
सज्जनचित्तवल्लभम क्रीतान्नं भवता भवेत् कदशनं, रोषस्तदा श्लाघ्यते । भिक्षार्थी यदवाप्यते यतिजनैस्तद्भुज्यतेऽत्यादरात् || भिक्षो ! भाटकसबसन्निभतनो, पृष्टिं वृथा मा कृथाः | पूणे किं दिवसावधौ क्षणमपि, स्थातुं यमो दास्यति ।।१९।। लब्ध्वार्थ यदि धर्मदानविषये, दातुं न यैः शक्यते । दारिद्रोपहतास्तथाऽपि विषया-सक्ति न मुञ्चन्ति ये ।। घत्वा ये चरणं जिनेन्द्रमदितं, तस्मिन सदाऽनादराः। तेषां जन्म निरर्थक मतमजा-कण्ठे स्तनाकारवत ॥२०॥ लब्ध्वा मानुषजातिमुखमकुलं, रूपं च नीरोगतां । बुद्धि(धनसेवनं सुचरणं, श्रीमज्जिनेन्द्रोदितम् ।। लोभाथ वसुपूर्णहेतुभिरलं, स्तोकाय सौख्याय भो!। देहिन् देहसुपोतक गुणमृतं, भक्तु फिमिच्छाऽस्ति ते ।।२१ वैतालाक्रतिमर्द्धदग्धमृतकं, दृष्ट्वा भवन्तं यते ! । यासां नास्ति भयं त्वया सममहो, जल्पन्ति तास्तत्पुनः ।। राक्षस्यो भुवने भवन्ति वनिता, मा मा गत भक्षितुं | मावचं प्रपलाप्यता मृतिभयात्त्वं तत्र मा स्थाः क्षणम्।।२२।। मागास्त्वं युवतीगृहषु सततं, विश्वासतां संशयो । विश्वासे जनवाच्यतां भवति ते, नश्येत् पुमर्थ ह्यतः ।। स्वाध्यायानुरतो गुरूक्तवचनं शीर्थे समारोपयन् । तिष्ठ स्वं विकृतिं पुनर्बजसि चेद् यासि त्वमेव क्षयम् ॥२३।।