________________
सज्जनांचत्तवल्लभम्
अन्येषां मरणं भवानगणयन् , स्वस्यामरत्वं सदा ।। देहिन् ! चिन्तयतीन्द्रिय द्विपक्शी, भूत्वा परिभ्राम्यसि ।। अब श्वः पुनरागमगिष्यति यमो, न ज्ञायते तत्त्वतः । तस्मादात्महितं कुरु त्वमचिराद्, धम जिनेन्द्रोदितं ।।१४।। सौख्यं वाञ्छसि किं त्वया गतभये, दानं तपो वा कृतं । नो चेत् त्वं किमिहैवमेव लभसे, लब्ध तदन्वागतम् ।। धान्यं किं लभते विनाऽपि वपनं, लोके कुटुम्बीजनो । देहे कीटकभभितेब्रुसदृशे, मोहं था मा कृथाः ।।१।। आयुष्यं तव निद्रयार्द्धमपरं, चायुस्त्रिभेदादहो । बालस्वे जरंया कियद् व्यसनतो, यातीति देहिन् ! वृथा ।। निश्चित्यात्मनि मोहपाशमधुना, संबिध बोधासिना। मुक्तिश्रीवनितावशीकरणसच्चारित्रमाराधय ।।१६।। यत्काले लघुपात्रमण्डितकरो, भूत्वा परेषां गृहे । भिक्षार्थं श्रमसे तदा हि भवतो. मानापमानेन कि ।। भिक्षो ! तापसवृशितः कदशनात्, कि तप्यसेऽहनिशं । श्रेयोऽथ किल सह्यते मुनिवर, बांधा क्षुधायुद्भवा ॥१७|| एकाकी विहरत्यनस्थितबली-बर्दो यथा स्वच्छया। योपामध्यरतस्तथा त्वमपि भो !, त्यक्त्वाऽऽत्मयूथं यते ! ।। तस्मिश्चेदभिलाषता न भवतः, किं भ्राम्यसि प्रत्यहम् । मध्ये साधुजनस्य तिष्ठसि न किं, कृत्वा सदाचारताम् ॥१८॥